सप्ताहोरात्रमभवद्युद्धं समरशालि नाम् 3.3.23.
एकलक्षं हताः सर्वे बलखानेश्च सैन्यपैः हर्षिता बलखान्याद्या जय दुर्गे वचोऽब्रुवन्
दृष्ट्वा सैन्यविनाशं च राज्ञः सप्तकुमारकाः
महानन्दश्च नन्दश्च परानन्दोपनन्दकौ
गजस्थास्ते महावीरास्तोमरान्वयसंभवाः
भयभीताश्च ते सर्वे बलखानिमुपाययु
अभ्यधावत वेगेन कपोतस्थो महाबलः
उपनन्दं सूर्यवर्मा सुनन्दं प्रति तारकः
युध्यमानास्तु ते सर्वे परस्परं वधैषिणः
पराजितास्तु ते पुत्रा बाह्लीकस्य महाबलाः
दृष्ट्वा तेषां बलं घोरमभिनन्दनभूमिपः कथितं कारणं राज्ञा यथा जातः पराजयः ।। 3.3.23.
इति श्रुत्वा तु कुतुकस्तमाश्वास्य महीपतिम् तत्सैन्यं मोहयामास शिलाभूतमचेतनम्
तदा केसरिणी नाट्या अष्टौ बद्ध्वा महाबलान्
बाह्लीकश्च प्रसन्नात्मा बद्ध्वा तान्निगडैर्दृढैः
देव्याश्च वरदानेन देवसिंहो भयातुरः
ज्ञात्वा स्वर्णवती देवी सर्वविद्याविशारदा
दृष्ट्वा तु दंपती तत्र मकरंदं गृहे स्थितौ
कृष्णांशस्तु तदा दुःखी मकरन्दं वचोऽब्रवीत्
कुलक्षये महत्पापं सुप्रोक्तं पूर्व सूरिभिः
इति श्रुत्वा तु तच्छयालः शूरायुतसमन्वितः कृष्णांशेन हयारूढो बाह्लीकं त्वरितो ययौ
तदा स्वर्णवती देवी पुष्पवत्या समन्विता 3.3.23.
स छित्त्वा शांबरीं मायां बोधयित्वा स्वसैनिकान्
दृष्ट्वा ताञ्छत्रुसंयुक्तान्कुतुकस्तु तया सह
छित्त्वा सा सकलां मायां बद्ध्वा तौ दैत्यसन्निभौ
न दाहो दाहमापन्नो न भस्मी भस्मवान्खलु
तदा पुष्पवती देवी हत्वा केसरिणी रुषा
कुतुकं च तथाभूतं हत्वा स्वर्णवती स्वयम्
पुनरागम्य सा देवी तया सार्द्धं शुभानना
ते सर्वे विस्मिताश्चासञ्ज्ञात्वा देव्या विमोहिताः
पुनश्चासीत्तयोर्युद्धं सेनयोरुभयोर्मृधे