अह्लादः क्रोधताम्राक्षः केशाना कृष्य तं मुदा 3.3.23.
श्रुत्वा परिमलो राजा सपत्नीकस्समागतः
अरे धूर्त महापापिन्मद्बंधुर्घातितस्त्वया
तदा महीपतिर्दुःखी निःश्वासो मौनमास्थितः
एतस्मिन्नंतरे वीरो बलखानिः समागतः
स चकार विवाहार्थमुद्योगं भ्रातृजस्य वै
तारकश्च तमायातस्सार्द्धं शूरसहस्रकैः
तालनश्च ततः प्राप्तो लक्षसैन्यसम न्वितः
ब्रह्मानंदः स्वयं प्राप्तस्त्रिलक्षबलसंयुतः
हा बंधो क्व गतस्त्वं वै मां त्यक्त्वा पुरुषाधमम्
बलखानिस्तु बलवाँल्लक्षसैन्यसमन्वितः 3.3.23.
अहोरात्रप्रमाणेन मासैकः पथि वै गतः व्यूहः स्वकीयसैन्यानां रचितो बलखानिना
एको रथः स्थितो युद्धे तत्पश्चात्संस्थिता गजाः
तेषां पश्चात्क्रमाज्ज्ञेया पत्तयो दश संस्थिताः
एको रथो गजास्सर्वे शतार्द्धं तु हयास्तु ये
पञ्चायुतानि सेनायां सर्वे पदचराः स्मृताः
गजास्तु दशसाहस्रा मदमत्ताः पृथग्ययुः
अभिनन्दनभूपस्य म्लेच्छाः पैशाचधर्मिणः
एकलक्षः पदचरा भुशुण्डीपरिघायुधाः गजस्थास्तत्र संप्राप्ता यत्राह्लादमहा चमूः
तयोश्चासीन्महद्युद्धं तुमुलं रोमहर्षणम्
सप्ताहोरात्रमभवद्युद्धं समरशालि नाम् 3.3.23.
एकलक्षं हताः सर्वे बलखानेश्च सैन्यपैः हर्षिता बलखान्याद्या जय दुर्गे वचोऽब्रुवन्
दृष्ट्वा सैन्यविनाशं च राज्ञः सप्तकुमारकाः
महानन्दश्च नन्दश्च परानन्दोपनन्दकौ
गजस्थास्ते महावीरास्तोमरान्वयसंभवाः
भयभीताश्च ते सर्वे बलखानिमुपाययु
अभ्यधावत वेगेन कपोतस्थो महाबलः
उपनन्दं सूर्यवर्मा सुनन्दं प्रति तारकः
युध्यमानास्तु ते सर्वे परस्परं वधैषिणः
पराजितास्तु ते पुत्रा बाह्लीकस्य महाबलाः