मकरंदस्तदा वीणां मृदंगं भीष्मजो बली 3.3.23.
गृहीत्वा मोदयामासुर्नारीवृन्दा महोत्तमम्
मायां निर्वापयामास निष्फला साऽभवत्क्षणात्
वांछितं ब्रूहि मे वीर कृष्णांशश्चाह तां वधूम्
इति श्रुत्वा चित्ररेखा शोकव्याकुलचेतना
इंद्राद्या देवतास्सर्वे मया निर्मितया यया
देवो नारायणो वापि धर्मो वापि शिवः स्वयम्
उदयो नाम मे राज्ञि देवसिंहोऽयमुत्तमः
इन्दुलस्य वियोगेन वयं योगित्वमागताः
शुकं देहि महामाये इंदुलं देहि वा यदि
दर्शनं देहि मे शीघ्रं नो चेत्प्राणांस्त्यजाम्यहम् 3.3.23.
कृत्वा लज्जां पुनः प्राह मां च पुत्रं गृहाण भोः
पतित्वा तच्चरणयो रुरोदोच्चैश्च दंपती
इंदुलेनैव लिखितं गृहीत्वा पत्रमुत्तमम्
सूर्यवर्मा गतो गेहं मकरंदेन मानितः
ययौ मनोरथारूढो यत्राह्लादः शुचान्वितः
देवसिंहं च मां विद्धि तव पुत्रान्वेषणे रतम्
इति श्रुत्वा स आह्लादश्चा ह्लादं परमाप्तवान्
महीपतिं समाहूय वचनं प्राह नम्रधीः
स होवाच श्रुतं वीर कृष्णांशेन यथा हतः
अह्लादः क्रोधताम्राक्षः केशाना कृष्य तं मुदा 3.3.23.
श्रुत्वा परिमलो राजा सपत्नीकस्समागतः
अरे धूर्त महापापिन्मद्बंधुर्घातितस्त्वया
तदा महीपतिर्दुःखी निःश्वासो मौनमास्थितः
एतस्मिन्नंतरे वीरो बलखानिः समागतः
स चकार विवाहार्थमुद्योगं भ्रातृजस्य वै
तारकश्च तमायातस्सार्द्धं शूरसहस्रकैः
तालनश्च ततः प्राप्तो लक्षसैन्यसम न्वितः
ब्रह्मानंदः स्वयं प्राप्तस्त्रिलक्षबलसंयुतः
हा बंधो क्व गतस्त्वं वै मां त्यक्त्वा पुरुषाधमम्