गजमुक्तामनुज्ञाप्य दंपती प्राप्य निर्भयः 3.3.23.
मकरंदस्तु बलवान्ज्ञात्वा तत्सर्वकारणम्
धर्ममाराधयामास यज्ञैर्नानाविधैः स्तवैः
अभिनंदनभूपस्य सुता चित्रप्रपूजिनी
केसरिण्या गुरुर्ज्ञेयः कुतुको योगुरूपधृक्
शत्रुभिर्दुर्गमा भूमिः शत्रुपाषाणकारिणी
चित्ररेखाभूपसुता जयंतस्तु तया हृतः इन्दुलश्च स्थितो दुःखी चित्रमायाविमोहितः
कृष्णांशश्च भवान्देवः सहितः सूर्यवर्मणा चित्ररेखां समागत्य नृत्यादींस्तैः समं कुरु
मोहयित्वा च तां देवीं पठित्वा तन्मतं शुभम्
इत्युक्त्वान्तर्दधे देवस्स राजा विस्मयान्वितः
फाल्गुने मासि संप्राप्ते त्रयस्ते योगिरूपिणः 3.3.23.
मृदंगांकस्तदा देवो मकरंदो विपंचिमान्
मोहयित्वा च नगरं तथा गजपतिं नृपम्
वांछितं ब्रूहि मे योगिन्स श्रुत्वा प्राह नम्रधीः
कृत्वा कार्यमहं शीघ्रं पुनर्दास्यमि ते सुतम्
इति श्रुत्वा गजपतिर्दत्त्वा तेभ्यः स्वकं सुतम्
पक्षमात्रेण बाह्लीकं नगरं प्रययुर्मुदा
आययुर्लास्यतत्त्वज्ञा नृपमोहनतत्पराः
मोहितास्तैश्च ते सर्वे गीतनृत्यविशारदैः
तानादाय पुनर्भूपः स्वगेहमभिनंदनः
मकरंदस्तदा वीणां मृदंगं भीष्मजो बली 3.3.23.
गृहीत्वा मोदयामासुर्नारीवृन्दा महोत्तमम्
मायां निर्वापयामास निष्फला साऽभवत्क्षणात्
वांछितं ब्रूहि मे वीर कृष्णांशश्चाह तां वधूम्
इति श्रुत्वा चित्ररेखा शोकव्याकुलचेतना
इंद्राद्या देवतास्सर्वे मया निर्मितया यया
देवो नारायणो वापि धर्मो वापि शिवः स्वयम्
उदयो नाम मे राज्ञि देवसिंहोऽयमुत्तमः
इन्दुलस्य वियोगेन वयं योगित्वमागताः
शुकं देहि महामाये इंदुलं देहि वा यदि