इति ते कथितं विप्र कृष्णांशचरितं शुभम् 3.3.22.
इषशुक्लदशम्यां च कृतो राज्ञा महोत्सवः
भोजयित्वा द्विजश्रेष्ठान्दत्त्वा तेभ्यो हि दक्षिणाः
कार्तिक्यां शुभयुक्तायां कृष्णांशो बलसंयुतः
अयुतैः स्वर्णद्रव्यैश्च शूरैर्दशसहस्रकैः
एतस्मिन्नंतरे तत्र चित्ररेखा समागता
गंगामध्ये महारम्यं यानं मायामयं तया
आगतास्तत्र राजानो नाना तद्दर्शनोत्सुकाः शतशूरैश्च सहितो दर्शनार्थमुपाययौ
चित्ररेखा महारम्या वाहीकनृपतेः सुता येन स्वप्नांतरे रम्यं सार्द्धं भुक्तं तया सुखम्
तमाह्लादसुतं ज्ञात्वा साभिनंदनदेहजा
हृत्वा स्वयंवरे रम्ये परमानन्दमाययौ 3.3.23.
कृष्णांशस्तु तदा बुद्ध्वा न ददर्श स्वकं शिशुम्
कालज्ञो देवसिंहोऽपि मोहितश्चित्रमायया
विस्मितं देवसिंहं च दृष्ट्वा कृष्णांशको बली
श्रुत्वा तु रोदनं तस्य खलस्तत्र महीपतिः रुदित्वा तत्र वै गाढं वचनं प्राह नम्रधीः
उदयो नाम ते भ्राता मोहयित्वा मदेन तौ
प्रत्यक्षं च मया दृष्टं तेन वीरेण वै कृतम्
देवसिंहस्ततो बुद्ध्या न ज्ञातं तेन यत्कृतम्
एतस्मिन्नंतरे प्राप्तौ तौ वीरौ रोदने रतौ
आह्लादो निश्चयं ज्ञात्वा भाषितं च महीपतेः
तस्य माता तथा पत्नी भगिनी प्रेमदुःखिताः न बोधितस्तदा वीरश्चित्रमायाविमोहितः ।। 3.3.23.
तदा पुष्पवती देवी स्वपतिं भ्रातृपीडितम्
विनापराधं कृष्णांशो महानिंदामवाप्तवान्
वधस्त्यागः समो ज्ञेयो योग्यं बुद्ध्या विचारय
चांडालांश्च समाहूय बद्ध्वा तं पुत्रघातिनम्
अस्य नेत्रे समुत्पाट्य मां दर्शयत संयुताः
देवसिंहस्ततो गत्वा दत्त्वा तेभ्यो महद्धनम्
बलखानेस्तु या पत्नी गजमुक्ता पतिव्रता
चांडालास्ते तु संगत्य मृगनेत्रे च तं ददुः धिक्त्वां पापं दुराचारं त्वया मे हिंसितः सखा
जीवितस्त्वत्सुतो भूमौ तदन्वेषणहेतवे इत्युक्त्वा प्रययौ वीरः शिरीषाख्यपुरं शुभम्