महीपतिं महाधूर्तं मत्वा राजाब्रवीदिदम् 3.3.22.
बद्ध्वा स्वभगिनीकांतं स्वबंधुं मोचयाशु वै
शीघ्रं गत्वा च नगरीं रुरोध बलवान्रुषा सौरमस्त्रमुपादाय दाहनार्थं समुद्यतः
सज्जीभूते तदस्त्रे तु ब्रह्मानंदो महाबलः
दृष्ट्वा भयान्वितो भूपस्तमेव शरणं ययौ
धूर्तवाक्येन हे भूप मद्बंधुर्बाधितस्त्वया अतस्त्वं भगिनीयुक्तं स्वसुतं देहि मे नृप
इति श्रुत्वा च नृपतिर्वचनं प्राह नम्रधीः
इत्युक्त्वा वीरसेनश्च सुतं चंद्रावलीं तथा
ब्रह्मानन्दोऽपि बलवान्कृष्णांशेन समन्वितः
मलना स्वसुतं दृष्ट्वा प्रेमविह्वलकंपिता
इति ते कथितं विप्र कृष्णांशचरितं शुभम् 3.3.22.
इषशुक्लदशम्यां च कृतो राज्ञा महोत्सवः
भोजयित्वा द्विजश्रेष्ठान्दत्त्वा तेभ्यो हि दक्षिणाः
कार्तिक्यां शुभयुक्तायां कृष्णांशो बलसंयुतः
अयुतैः स्वर्णद्रव्यैश्च शूरैर्दशसहस्रकैः
एतस्मिन्नंतरे तत्र चित्ररेखा समागता
गंगामध्ये महारम्यं यानं मायामयं तया
आगतास्तत्र राजानो नाना तद्दर्शनोत्सुकाः शतशूरैश्च सहितो दर्शनार्थमुपाययौ
चित्ररेखा महारम्या वाहीकनृपतेः सुता येन स्वप्नांतरे रम्यं सार्द्धं भुक्तं तया सुखम्
तमाह्लादसुतं ज्ञात्वा साभिनंदनदेहजा
हृत्वा स्वयंवरे रम्ये परमानन्दमाययौ 3.3.23.
कृष्णांशस्तु तदा बुद्ध्वा न ददर्श स्वकं शिशुम्
कालज्ञो देवसिंहोऽपि मोहितश्चित्रमायया
विस्मितं देवसिंहं च दृष्ट्वा कृष्णांशको बली
श्रुत्वा तु रोदनं तस्य खलस्तत्र महीपतिः रुदित्वा तत्र वै गाढं वचनं प्राह नम्रधीः
उदयो नाम ते भ्राता मोहयित्वा मदेन तौ
प्रत्यक्षं च मया दृष्टं तेन वीरेण वै कृतम्
देवसिंहस्ततो बुद्ध्या न ज्ञातं तेन यत्कृतम्
एतस्मिन्नंतरे प्राप्तौ तौ वीरौ रोदने रतौ
आह्लादो निश्चयं ज्ञात्वा भाषितं च महीपतेः