पुनश्च सिंहलद्वीपे जयंतार्थे वयं गताः 3.3.22.
अतस्त्वां प्रति सुप्रीता वयं भगिनिकिंकराः
गेहं निवासयामास स्वकीयं प्रेमविह्वला
सभायां वीरसेनस्य राज्ञा तेनैव सत्कृतः
निष्कासिताश्च ते सर्वे राज्ञाह्लादादयः खलाः । चौरितो नृपतेः कोशो हीनजात्यैर्महाबलैः
तदा तु कुंठिताः सर्वे शिरीषाख्यपुरेऽवसन्
चंद्रावल्याश्च वै दोलां गृहीत्वा स गमिष्यति
इति श्रुत्वा वीरसेनो ज्ञात्वा तत्सत्यकारणम्
वचनं प्राह भोः पुत्र बंधनं कुरु तस्य वै
भोजनाय ददौ तस्यै ज्ञात्वा चन्द्रावली तदा
कामसेनश्च कुपितो गृहीत्वा दंडवेतसम् 3.3.22.
गृहीत्वा भुजयोस्तं वै बंधनाय समुद्यतः
पुत्रानाज्ञापयामास तस्य बंधनहेतवे
सेनामध्ये समागम्य महद्युदमचीकरत् अहोरात्रमभूद्युद्धं दारुणं रोमहर्षणम्
हता लक्षं महाशूरा उदयेन महाबलाः
दृष्ट्वा पराजितं सैन्यं सप्त पुत्रा महाबलाः
स वीरो बिंदुलारूढो भूमौ कृत्वा गजासनान्
इति श्रुत्वा वीरसेनः सूर्यभक्तिपरायणः तेनास्त्रेणैव कृष्णांशः सहयो मूर्च्छितो भुवि
वीरसेनस्तु तं बद्ध्वा मोचयित्वा सुतान्वधूम्
हतरोषास्तदा वीराः कृष्णांशस्य ययुर्दिशः
महीपतिं महाधूर्तं मत्वा राजाब्रवीदिदम् 3.3.22.
बद्ध्वा स्वभगिनीकांतं स्वबंधुं मोचयाशु वै
शीघ्रं गत्वा च नगरीं रुरोध बलवान्रुषा सौरमस्त्रमुपादाय दाहनार्थं समुद्यतः
सज्जीभूते तदस्त्रे तु ब्रह्मानंदो महाबलः
दृष्ट्वा भयान्वितो भूपस्तमेव शरणं ययौ
धूर्तवाक्येन हे भूप मद्बंधुर्बाधितस्त्वया अतस्त्वं भगिनीयुक्तं स्वसुतं देहि मे नृप
इति श्रुत्वा च नृपतिर्वचनं प्राह नम्रधीः
इत्युक्त्वा वीरसेनश्च सुतं चंद्रावलीं तथा
ब्रह्मानन्दोऽपि बलवान्कृष्णांशेन समन्वितः
मलना स्वसुतं दृष्ट्वा प्रेमविह्वलकंपिता