लोमकस्तस्य तनयो राज्यं सप्तशतं समाः
तस्माज्जातः सुतो न्यूहो निर्गतस्तूह एव सः
सीमः शमश्च भावश्च त्रयः पुत्रा बभूविरे
एकदा भगवान्विष्णुस्तत्स्वप्ने तु समागतः
वत्स न्यूह शृणुष्वेदं प्रलयः सप्तमेऽहनि
जीवनं कुरु भक्तेषु सर्वश्रेष्ठो भविष्यसि
हस्तत्रिशतलम्बां च पंचाशद्धस्तविस्तृताम् 3.1.4.
आरुह्य स्वकुलैस्सार्द्धं विष्णुध्यानपरोऽभवत्
चत्वारिंशद्दिनान्येव महावृष्टिमकारयत्
चत्वारो मिलिताः सर्वे विशालायां न चागताः
न्यूहश्च स्वकुलैस्सार्धं शेषास्सर्वे विनाशिताः
महालक्ष्म्यै विष्णुमात्रे राधा देव्यै नमोनमः
रेवत्यै पुष्पवत्यै च स्वर्णवत्यै नमोनमः
महावातप्रभावेन महा मेघरवेण च
तस्माद्भयाद्भैरवि त्वमस्मान्संरक्ष किंकरान्
अब्दांतरे मही सर्वा स्थली भूत्वा प्रदृश्यते
न्यूहस्तत्र स्थितो नावमारुह्य स्वकुलैस्सह 3.1.4.
कलियुगभूपाख्यानवर्णनम् दिव्यदृष्टिप्रभावेन ज्ञातं ब्रूहि ततः परम्
तदा प्रसन्नो भगवांस्तस्य वंशः प्रवर्द्धितः
म्लेच्छभाषा कृता तेन वेदवाक्यपराङ्मुखा .
न्यूहाय दत्तवान्देवो बुद्धीशो बुद्धिगः स्वयम्
सिमश्च हामश्च तथा याकूतो नाम विश्रुतः
मादी तथा च यूनानस्तूवलोमसकस्तथा
जुम्रा दश कनाब्जश्च रिफतश्च तजर्रुमः
इलीशस्तरलीशश्च कित्तीहूदानिरुच्यते
द्वितीयतनयाद्धामात्सुताश्चत्वार एव ते
देशाः प्रसिद्धा म्लेच्छानां कुशात्षट्तनयाः स्मृताः 3.1.5.
तथा सवतिका नाम निमरूहो महाबलः
अक्कदो वावुनश्चैव रसनादेशकाश्च ते
द्विसहस्रे शताब्दान्ते बुद्ध्वा पुनरथाब्रवीत