यदा यदा हि धर्मस्य ग्लानिर्भवति वै प्रिये 3.3.22.१
सत्ये तु मानसी पूजा देवानां तृप्तिहेतवे
द्वापरे मूर्तिपूजा च देवानां वै प्रियंकरी
अहं हंसः सत्ययुगे त्रेतायां यज्ञपूरुषः शालग्रामः कलौ प्राप्ते देवानां तृप्तये ह्यहम्
मुनयो देवतास्सर्वास्तथा पितृगणाः प्रिये
द्विजातिभिस्त्रिवर्णैश्च पूजनं चंदनादिकैः
म्लेच्छैश्च दर्शनं पुण्यं विनयाद्भक्तिभावतः तस्य दर्शनमात्रेण क्षयं यास्यंति वै मलाः
इति ते कथितं देवि युगमर्यादमुत्तमम्
पुष्पवत्युवाच गाननृत्यादिकं वाद्यं देवस्याग्रे मया कृतम्
तेन पुण्यप्रभावेण स्वर्गलोकमुपागता
ब्रह्मचर्यं न तत्याज स्वर्गलोकेऽपि वै ह्यहम् अनिरुद्धः स्वयं ब्रह्म मम पाणिं गृहीतवान् ।। 3.3.22.
कलिना प्रार्थितो देवो मम स्वामी स्वहेतवे
स्वप्रसादस्य महिमा दर्शितस्तेन तत्र वै
अहं तस्याज्ञया स्वामिञ्जम्बुकस्य सुताभवम्
कृतं ममैव मरणं त्वद्भ्रात्रा बलखानिना
तेन दोषेण त्वद्भ्राता यातनां तीव्रमागतः इत्युक्त्वा मौनमास्थाय रेमे पत्या समं मुदा
होलिकासमये प्राप्ते मलना स्नेहदुःखिता रुरोद निशि दुःखेन स्वसुतास्नेहकातरा
तदोदयो महावीरो ज्ञात्वा रोदन कारणम् एकाकी प्रययौ वीरो यत्र चंद्रावलीगृहम्
महीपतिस्तु तच्छत्रुर्ज्ञात्वा कारणमुत्तमम् बलीठाठमिति ख्यातं ग्रामं यादवपालितम्
वीरसेनो नृपस्तत्र त्रिलक्षबलसंयुतः
कामसेनः प्रसेनश्च महासेनस्तथैव च मधुपश्च क्रमाज्जाता यादवांशाश्च यादवाः ।। 3.3.22.
तत्र गत्वा च कृष्णांशस्सभायां नरकेसरी
मलनालिखितं पत्रं दत्त्वा राज्ञे महामनाः
व्यंजनानि विचित्राणि भुक्त्वा यादवसंयुतः
प्रेमोत्सुका च भगिनी कृष्णांशं प्राह दुःखिता
विंशदब्दस्ततो जातो विस्मृता पितृमातृभिः
अद्य मे सफलं जन्म जीवितं सफलं च मे
प्रसन्नात्मोदयस्तत्र भगिनीं प्राह नम्रधीः
तस्य दुःखेन भूपालो भयभीतो दिनेदिने
महीराजस्तु बलवान्रुरोध नगरीं मम