स्वभल्लं देवसिंहश्च तमंके च समाहनत्
शिलावाजिप्रभावेण कश्मलं न जगाम ह
शनिभल्लेन ते सर्वे बभूवुर्मूर्छिता रणे
मकरंदस्तु बलवान्बद्ध्वा तान्युद्धदुर्मदान्
दृष्ट्वा पराजितान्वीरान्रूपणो भयकातरः
ब्रह्मानंदस्तु तच्छ्रुत्वा लक्षसैन्यसमन्वितः
लिखित्वा निर्मलं पत्रं तद्राज्ञे त्वरितो ददौ
कृष्णांशाय सुतां देहि नाम्ना पुष्पवतीं शुभाम्
निशम्येति नृपश्रेष्ठो मयूरध्वज एव सः अहोरात्रं कृतं युद्धं तेन सार्द्धं भयप्रदम्
ब्रह्मानंदस्तु बलवान्बाणयुद्धमचीकरत् 3.3.21.
तदा स्वर्णवतीपुत्रो जयन्तः शक्रसंभवः
सूत उवाच मंगलं कृतवान्राजा तदा परिमलो बली
पुष्पवत्या तया सार्द्धं गीतनृत्यविशारदः
हेमंतशिशिरे वीरो रहः क्रीडां करोति वै
ग्राम्यधर्मं न कृतवान्सर्वस्पर्शविशारदः
कृष्णांशं वचनं प्राह पूर्वजन्मनि को भवान्
नृपोहं चंद्रदासश्च पूर्वजन्मनि हे प्रिये
शालग्रामशिलापूजा प्रत्यहं वै मया कृता
मृतेऽहनि तु संप्राप्ते शालग्रामे मनो दधौ
कलिना प्रार्थितो विष्णुः कालात्मा परमेश्वरः
यदा यदा हि धर्मस्य ग्लानिर्भवति वै प्रिये 3.3.22.१
सत्ये तु मानसी पूजा देवानां तृप्तिहेतवे
द्वापरे मूर्तिपूजा च देवानां वै प्रियंकरी
अहं हंसः सत्ययुगे त्रेतायां यज्ञपूरुषः शालग्रामः कलौ प्राप्ते देवानां तृप्तये ह्यहम्
मुनयो देवतास्सर्वास्तथा पितृगणाः प्रिये
द्विजातिभिस्त्रिवर्णैश्च पूजनं चंदनादिकैः
म्लेच्छैश्च दर्शनं पुण्यं विनयाद्भक्तिभावतः तस्य दर्शनमात्रेण क्षयं यास्यंति वै मलाः
इति ते कथितं देवि युगमर्यादमुत्तमम्
पुष्पवत्युवाच गाननृत्यादिकं वाद्यं देवस्याग्रे मया कृतम्
तेन पुण्यप्रभावेण स्वर्गलोकमुपागता