महावती पुरी रम्या तत्र कृष्णागृहं शुभम्
रोदनं कुर्वती गाढं तव निन्दनतत्परा
आगमिष्यति वै वीरो बलैस्सार्द्धं महाबल
जितो येन महावीरः पितृव्यो लहरस्तव
इति श्रुत्वा वचो घोरं मकरन्दो महीपतिः
स्वसैन्यं च समाहूय त्रिलक्षं खड्गसंयुतम्
कृष्णांशस्तु गृहं प्राप्य बलखानिमुवाच तत् पञ्चलक्षबलैस्सार्द्धं मयूरनगरं ययौ
शतघ्न्यः पञ्चसाहस्रा गजा दश सहस्रकाः उषित्वा पक्षमात्रं तु मार्गे पांचालके तदा
मकरंदस्तु तच्छ्रुत्वा शनिभल्लकरः स्थितः
श्रुत्वा पदातयो लक्षं शतघ्नीवह्निमाददन् 3.3.21.
ग्रामस्य दक्षिणद्वारे हयारूढास्तदा ययुः
एकलक्षं हयास्सर्वे मकरंदस्य भूपतेः
तदा तु पश्चिमद्वारे गजा विंशत्सहस्रकाः
उष्ट्र रक्षा महावीराश्चत्वारिंशत्सहस्रकाः
अहोरात्रमभूद्युद्धं तुमुलं लोमहर्षणम्
त्यक्त्वा युद्धं तु ते सर्वे दुद्रुवुश्च दिशो दश
मनोरथस्थितो देवश्चाह्लादस्तु गजस्थितः
सत्सरुं खड्गमुत्सृज्य चक्रुः शत्रुमहावधम्
वह्निपुत्रस्तु बलवान्वाजिनं च शिलामयम्
कृष्णांशाद्याश्च ते शूरा रुरुधुस्सर्वतोदिशम् 3.3.21.
स्वभल्लं देवसिंहश्च तमंके च समाहनत्
शिलावाजिप्रभावेण कश्मलं न जगाम ह
शनिभल्लेन ते सर्वे बभूवुर्मूर्छिता रणे
मकरंदस्तु बलवान्बद्ध्वा तान्युद्धदुर्मदान्
दृष्ट्वा पराजितान्वीरान्रूपणो भयकातरः
ब्रह्मानंदस्तु तच्छ्रुत्वा लक्षसैन्यसमन्वितः
लिखित्वा निर्मलं पत्रं तद्राज्ञे त्वरितो ददौ
कृष्णांशाय सुतां देहि नाम्ना पुष्पवतीं शुभाम्
निशम्येति नृपश्रेष्ठो मयूरध्वज एव सः अहोरात्रं कृतं युद्धं तेन सार्द्धं भयप्रदम्
ब्रह्मानंदस्तु बलवान्बाणयुद्धमचीकरत् 3.3.21.