कृष्णा नाम महारम्या सर्वलोकविमोहिनी तया विरचितं सुभूर्ग्रैवेयकमनुत्तमम्
इति श्रुत्वा तु वचनं देवी पुष्पवती स्वयम्
मकरंदभयाद्देवास्तथान्ये पुरुषा भुवि
इति श्रुत्वा वचो घोरं पुष्पा तु भयकातरा
तदा पुष्पवती प्राह किं ते भयमुपागतम्
मोहितः पुरुषः कश्चिद्बलात्तां हि भजिष्यति
इति श्रुत्वा पुष्पवती पुनः प्रोवाच धर्मिणी अयोग्यं ये करिष्यंति ते यास्यंति यमालयम्
अतस्त्वं शीघ्रमादाय तद्दोलां च मदंतिके
तथेति मत्वा सा शूद्री गृहमागत्य भामिनी
इति श्रुत्वा वचो रम्यं कृष्णांशो बलवत्तरः जगाम पुष्पया सार्द्धं दोलामारुह्य वीर्यवान् ।। 3.3.21.
तदा पुष्पवती देवी दृष्ट्वा कृष्णां मनोरमाम्
यादृशीयं शुभा नारी तादृशः पुरुषो मया
कृष्णांशश्च स तामाह देशराजसुतो वरः
प्रत्यहं रचितं हारमथ पूजनहेतवे
एकदा प्रस्थितं वीरं पुष्पमध्ये शनैःशनैः
मोहोऽयं ते कुतः प्राप्तः स त्वं कथय मा चिरम्
मया दृष्टा शुभा नारी रूपयौवनशालिनी
इति श्रुत्वा पुष्पवती तामाह रुचिराननाम्
तदा त्वां तर्पयिष्यामि बहुद्रव्यैः शुभानने
इति श्रुत्वा तु तद्वाचं पुष्पा प्रेमसमन्विता 3.3.21.
दुर्गद्वारे तु प्राप्तायां तद्दोलायां च भार्गव
दोलासमीपमागत्य ददर्श रुचिराननाम्
मुमोह बलवान्वीरो गोवर्द्धन कलांशकः
मद्गृहं शीघ्रमागच्छ पत्नी मम भवाधुना
कुलीनस्त्वं महावीर वह्निकुण्डात्समुद्भवः
त्वद्योग्या भूपतेः कन्या चंद्रसूर्य्यान्वयस्य वै
कन्याहं शूद्रजातेश्च बह्मचर्य्यव्रते स्थिता
बलाद्गृहीत्वा तां नारीं पस्पर्श हृदये स्वयम् मोहयित्वा नृपसुतं स देवः स्वगृहं ययौ
मकरन्दस्तु संबुद्धो मदनाग्निप्रपीडितः
तत्स्नेहकातरं भूपं मकरंदं महाबलम् 3.3.21.