निशुंभदैत्यसंहारे शुंभदैत्यविनाशिनि
इति स्तुत्वा च सुष्वाप स वीरः परमासने चकार प्रत्यहं देवी वरदाभयकारिणी
एवं गते चतुर्मासे जलवृष्टिकरे मुने
कार्तिके कृष्णपक्षे तु गतोऽसौ देवसंयुतः
पुष्पागृहमुपागम्य तत्र वासमचीकरत्
एकदा सुंदरं हार कृष्णांशेनैव गुंठितम् गृहीत्वा प्रययौ पुष्पा पुष्पवत्याश्च मंदिरे
सा तु ग्रैवेयकं दृष्ट्वा त्वष्ट्रेव रचितं प्रियम्
अये सखि महामाये सत्यं कथय मेऽग्रतः
इति श्रुत्वा वचस्तस्या मकरंदभयातुरा
जीवदानं च मे देहि तर्हि ते कथयाम्यहम् 3.3.21.
कृष्णा नाम महारम्या सर्वलोकविमोहिनी तया विरचितं सुभूर्ग्रैवेयकमनुत्तमम्
इति श्रुत्वा तु वचनं देवी पुष्पवती स्वयम्
मकरंदभयाद्देवास्तथान्ये पुरुषा भुवि
इति श्रुत्वा वचो घोरं पुष्पा तु भयकातरा
तदा पुष्पवती प्राह किं ते भयमुपागतम्
मोहितः पुरुषः कश्चिद्बलात्तां हि भजिष्यति
इति श्रुत्वा पुष्पवती पुनः प्रोवाच धर्मिणी अयोग्यं ये करिष्यंति ते यास्यंति यमालयम्
अतस्त्वं शीघ्रमादाय तद्दोलां च मदंतिके
तथेति मत्वा सा शूद्री गृहमागत्य भामिनी
इति श्रुत्वा वचो रम्यं कृष्णांशो बलवत्तरः जगाम पुष्पया सार्द्धं दोलामारुह्य वीर्यवान् ।। 3.3.21.
तदा पुष्पवती देवी दृष्ट्वा कृष्णां मनोरमाम्
यादृशीयं शुभा नारी तादृशः पुरुषो मया
कृष्णांशश्च स तामाह देशराजसुतो वरः
प्रत्यहं रचितं हारमथ पूजनहेतवे
एकदा प्रस्थितं वीरं पुष्पमध्ये शनैःशनैः
मोहोऽयं ते कुतः प्राप्तः स त्वं कथय मा चिरम्
मया दृष्टा शुभा नारी रूपयौवनशालिनी
इति श्रुत्वा पुष्पवती तामाह रुचिराननाम्
तदा त्वां तर्पयिष्यामि बहुद्रव्यैः शुभानने
इति श्रुत्वा तु तद्वाचं पुष्पा प्रेमसमन्विता 3.3.21.