तत्त्वं कथय विप्रेन्द्र सर्वज्ञोऽसि मतो हि नः
गत्वा वार्तां तथा चक्रुर्यथा जातो महारणः
श्रुत्वा परिमलो भूपो वाजिवृंदं क्षयं गतम्
सिंधुदेशे च गंतव्यं त्वया च बलशालिना
इति श्रुत्वा तु कृष्णांशो देवसिंहेन संयुतः
शूरैश्च दशसाहस्रैस्सार्द्धं तत्र समागतः
प्रातःकाले तु संप्राप्ते मालाकारस्य वै सुता
कृष्णांशस्तु तदा पूजां कृत्वा देवमयो मुदा
बह्वाश्चर्ययुतं पुष्प मत्तभ्रमरनादितम्
एतस्मिन्नंतरे पुष्पा पुष्पार्थं समुपागता प्रसन्नवदनं शान्तमिंद्रनीलमणिद्युतिम् ।।3.3.21.
कृष्णांशस्तु शुभां नारीं दृष्ट्वाश्चर्यमुपागतः स्वर्गलोकादिहायाता यदि वा पन्नगी स्वयम्
इति श्रुत्वा च सा प्राह मालाकारस्य वै सुता
पुष्पेणानेन भूपाल तुलिता भूपतेः सुता
देवैश्च प्रार्थिता बाला रूपयौवनशालिनी
शृणु तत्कारणं भूप मकरंदो यथा भवेत्
अजेयोऽन्यैश्च कृष्णांशादृते त्वं जगतीतले
स राज्यं कारयामास धर्ममेघं हरिप्रियम्
मिथुनं जनयामास पावकात्सुंदराननम्
पञ्चमाब्दवया भूत्वा मकरंदो महाबलः
द्वादशाब्दवयः प्राप्ते मकरंदे नृपप्रिये 3.3.21.
शिलामयं महावेगं शत्रुसेनाक्षयंकरम्
तस्येदं सुंदरं दिव्यं विपिनं सुरपूजितम्
इति श्रुत्वा तु वचनं कृष्णांशः स्मरपीडितः
देवसिंहस्तु कालज्ञो ज्ञात्वा मोहत्वमागतम्
कृष्णांशस्तु ततस्सार्द्धं देवसिंहेन तन्मयः
मासान्ते गृहमागत्य राज्ञे सर्वान्न्यवेदयत् कृष्णांशो मोहमागत्य तुष्टाव जगदंबिकाम्
कृष्णांश उवाच पाहि मां कामदेवार्तं पुष्पवत्यै प्रबोधय
मधुकैटभसंमोहे महिषासुरघातिनि
धूम्रलोचनसंदाहे चंडमुंडविनाशिनि
रक्तबीजासृक्कपीते सर्वदैत्यभयंकरे 3.3.21.