भूपस्तु तत्प्रसादेन प्राप राज्ञीं शुभाननाम्
तस्यां स जनयामास सुतान्षो डशसंमितान्
तत्पश्चात्कन्यका जाता नाम्ना मदनमंजरी
देवसिंहं वरं मत्वा चंद्रवंशिनमुत्तमम्
रणधीरस्तु तनयो लक्षमुद्रान्वितो बली
नत्वा परिमलं भूपं तदीयात्कुलशालिनः
श्रुत्वा परिमलो भूपो देवसिंहं महामतिम्
देवसिंहस्तु बलवान्पितृव्यं प्राह नम्रधीः 3.3.20.
बहुधा प्रार्थितस्सर्वैर्द्विजवृंदसमन्वितैः
तदा परिमलो भूपो रणधीरं वचोऽब्रवीत्
तथेति मत्वा स नृपो रणधीरो गृहं ययौ
एतस्मिन्नन्तरे धूर्तो महीपतिरुवाच तम्
शूद्रीयोऽत्र वरो राजन्वर्णसंकरकारकः
कारागारे लोहमये बंधनं कुरु भूपतेः
जितस्तैर्जम्बुको राजा नेत्रसिंहस्तु यो नृपः
आर्यसिंहस्तथान्ये च जितास्ते बलवत्तराः
माघशुक्लदशम्यां च बलखानिं महाबलः 3.3.20.
देशे पांचालके रम्ये लहरीनगरे स्थितः
नृपतेराज्ञया शूरा युद्धाय समुपाययुः वीरानाज्ञापयामास स्वकीयान्संगरे पुनः
तयोर्युद्धमभूद्घोरं सेनयोर्लोमहर्षणम् कृष्णांशेनैव सहितो रिपोर्वधमकारयत्
पराजिताश्च ते शूरा हतशेषा भयातुराः युद्धायाभिमुखं जग्मुर्धनुर्बाणविशारदाः
कृष्णांशस्तांस्तथा दृष्ट्वा शरवर्षसमन्वितान्
तेषां धनूंषि संछिद्य बद्ध्वा तान्युद्धदुर्मदान्
पुत्राणां बन्धनं श्रुत्वा लहरो नृपसत्तमः
जलीभूते तथा सैन्ये जयन्तो बलवत्तरः लहरस्य ततः सेनामुवाह बहुयोजनम्
तदा तु भगवान्देवो वरुणो यादसां पतिः
लहरोऽपि प्रसन्नात्मा ज्ञात्वांशं जगतीतले 3.3.20.
दत्त्वा च बहुधा द्रव्यं परिक्रम्य पुनःपुनः
अंशास्तेऽपि महापूजां गृहीत्वा लहरप्रदाम्
इति ते कथितं विप्र कृष्णांशचरितं शुभम्