तस्य पुत्रावुभौ जातौ क्षत्रधर्मपरायणौ
द्वादशाब्दवया भूत्वा मयूरध्वज एव सः
यतेंद्रियस्तथा मौनी वानप्रस्थ परायणः
तदा प्रसन्नो भगवान्सेनानीरग्निभूः स्वयम्
मयूरध्वज एवापि दृष्ट्वा सर्वमयं शिशुम्
मयूरध्वज उवाच पिबति मात्रियं दुग्धमुत्तमं वधति सर्वदा दैत्यदानवान्
नमस्ते देवसेनेश महिषासुरमर्दन
प्रसन्नो भव सर्वात्मन्गुहशक्तिधराव्यय 3.3.20.
इति श्रुत्वा स्तुतिं तस्य सेनानीस्तमुवाच वै
इत्युक्तस्तेन देवेन भूपतिः प्राह नम्रधीः
तथेत्युक्त्वा तु तं स्कंदस्तत्रैवान्तर्दधे पुनः
नाम्ना मयूरनगरं नरवृंदसमन्वितम्
लहरो नामा तद्बंधुर्द्विदशाब्दप्रयत्नतः
तदा प्रसन्नो भगवान्वरुणो यादसां पतिः
इति श्रुत्वाऽमृतमयं वचनं लहरो नृपः
अतः प्रचेतास्ते नाम नमस्तुभ्यं प्रचेतसे
रुणद्धि पयसां वेगं न केनाप्यवरोधितः
दैत्यानां बंधनार्थाय देवानां जयहेतवे 3.3.20.
इति स्तुतस्तदा देवो राज्ञा तेनैव धीमता
त्रियोजनायामयुतां चतुर्वर्णसमन्विताम्
भूपस्तु तत्प्रसादेन प्राप राज्ञीं शुभाननाम्
तस्यां स जनयामास सुतान्षो डशसंमितान्
तत्पश्चात्कन्यका जाता नाम्ना मदनमंजरी
देवसिंहं वरं मत्वा चंद्रवंशिनमुत्तमम्
रणधीरस्तु तनयो लक्षमुद्रान्वितो बली
नत्वा परिमलं भूपं तदीयात्कुलशालिनः
श्रुत्वा परिमलो भूपो देवसिंहं महामतिम्
देवसिंहस्तु बलवान्पितृव्यं प्राह नम्रधीः 3.3.20.
बहुधा प्रार्थितस्सर्वैर्द्विजवृंदसमन्वितैः
तदा परिमलो भूपो रणधीरं वचोऽब्रवीत्