बलाद्दोलां समारोप्य लुंठयित्वा रिपोर्गृहम्
बलखानिस्तु बलवान्देवतालनसंयुतः
सुखवर्माणमागत्य सेनाध्यक्षं रिपोः सुतम्
हते तस्मिन्महावीर्ये जयन्तः क्रोधमूर्च्छितः
श्यालं च सुखवर्माणं संजीव्य स्वगृहं ययौ
विस्मितः स ययौ गेहं यथा पूर्वं तथाविधः
आर्य्यसिंहगृहं गत्वा पृष्टवान्सर्वकारणम्
रुरोद सुभृशं वीरो हा प्रिये मदविह्वले
इत्येवं रोदनं कृत्वा वडवोपरि संस्थितः एकाकी स ययौ क्रुद्धो निशि यत्र स्थितो रिपुः
एतस्मिन्समये वीरो बलखानिर्महाबलः 3.3.19.
हा इन्दुल महावीर हा मद्बंधो प्रियंकर
दर्शनं देहि मे शीघ्रं गृहाणाद्य शुभाननाम्
तस्मिन्काले च संप्राप्तः शक्रपुत्रो महाबलः
दृष्ट्वा सैन्यनिपातं च तालनो वाहिनीपतिः।। । सिंहनादं ननादोच्चैः सिंहिन्युपरि संस्थितः
न जयः सैन्यनाशेन तव वीर भविष्यति
इति श्रुत्वा वचस्तस्य शक्रपुत्रो भयंकरः स्वभल्लेन पुनर्वीरो दंशयामास वक्षसि
इंदुले मूर्छिते तस्मिन्वडवा दिव्यरूपिणी
तदा स बालस्त्वरितः कालास्त्रं चाप आदधे
मृते सेनापतौ तस्मिन्कृष्णांशो मदविह्वलः
इन्दुलः क्रोधताम्राक्षस्त्वाग्नेयं शरमाददे कृत्वा शीघ्रं ययौ शत्रुं स तु वायव्यमादधे ।। 3.3.19.
स्वयोगेनैव कृष्णांशः पीत्वा वायव्यमुत्तमम्
तथाविधं रिपुं दृष्ट्वा शक्रपुत्रो महाबलः
पुनर्योगबलेनैव तदस्त्रं संक्षयं गतम्
स्वयोगेनैव कृष्णांशो जलं सर्वं मुखेऽकरोत्
ययौ शीघ्रं प्रसन्नात्मा बाहुशाली यतेन्द्रियः चर्म खड्गं गृहीत्वाशु खड्गयुद्धमचीकरत्
एतस्मिन्नंतरे प्राप्ता देवाद्याः सर्वभूमिपाः
प्रातःकाले च संप्राप्ते बलखानिर्महाबलः
श्रमेण कर्शितो वीरः शक्रपुत्रः प्रतापवान्
स्वखड्गेनैव कृष्णांश शिरस्तव हराम्यहम् इत्युक्त्वा खड्गमादाय ययौ शीघ्रं रुषान्वितः
बलखानिस्तु तं ज्ञात्वा त्यक्त्वास्त्रं प्रेमकातरः 3.3.19.