सिंहलद्वीपके रम्ये ह्यार्यसिंहो नृपः स्थितः रागिण्यः सप्त विख्यातास्तत्सख्यः प्रमदोत्तमाः
नलिनीसागरे रम्ये गिरिजामंदिरं शुभम् 3.3.18.
सापि तं सुन्दरं दृष्ट्वा हंसदेहे समास्थितम्
वर्षमेकं ययौ तत्र नानालीलासु मोहितः
भक्तिगर्वत्वमापन्ने चाह्लादे जगदंबिका
तस्य प्राप्तं महद्दुःखमाह्लादस्य जयैषिणः
इन्दुलं रूपसम्पन्नं लंकापुरनिवासिनः
इति श्रुत्वा वचो घोरं सकुलो विललाप ह
कृष्णांशो रुदितं प्राहाह्लादं ज्येष्ठं शृणुष्व भोः इंदुलं त्वां समेष्यामि भवान्धैर्यपरो भवेत्
बलखानिश्च कृष्णांशो देवसिंहश्च तालनः
मार्गप्राप्ताश्च ये भूपा ग्रामपा राष्ट्रपास्तथा
ये भूपा मदमत्ताश्च जित्वा तांस्तालनो बली 3.3.18.
पूजयित्वा च रामेशं रामेण स्थापितं शिवम्
नलिनीसागरं प्राप्य तत्र वासमकारयन्
आर्य्यसिंह महाभाग स्वपोतान्देहि तीर्णकान् नो चेत्त्वां सबलं जित्वा राष्ट्रभंगं करोम्यहम्
इति श्रुत्वा पत्रवचो भूपतिर्बलवत्तरः
इन्दुलः स्तंभनं मंत्रं संस्थाप्य शर उत्तमे
दिवसे सुखशर्मा च त्रिलक्षैः स्वदलैः सह
निशामुखे च संप्राप्ते शक्रपुत्रो महाबलः। शतपुत्रैः क्षत्रियाणां सार्द्धं युद्धाय चाययौ
तेषां हया हरिद्वर्णा योगिवेषधरा बलात् तत्पश्चाद्गेहमासाद्य तदा तैः सुखितोऽवसत्
एवं जाताश्च षण्मासास्तयोर्युद्धं हि सेनयोः
संप्राप्य मानसीं पीडां युद्धार्थं विमुखोऽभवत्
देवसिंहं समाहूय त्रिकालज्ञं महामतिम् श्रुत्वोवाच महायोगी देवसिंहो महाबलः
महेंद्रतनयः कश्चित्सर्वशस्त्रास्त्रकोविदः रात्रौ स्वयं समागम्य करोति बलसंक्षयम्
अतस्त्वं मत्सहायेन तालनेन समन्वितः विजयी भव शीघ्रं हि नो चेद्यायां यमक्षयम्
इति श्रुत्वा वचस्तस्य देवसिंहस्य भाषितम् सेनां निवेशयामास पोतेषु हयवाहनः
अर्द्धं सैन्यं च तत्रैव स्थापयित्वा महाबलः
हयारूढाश्च ते शूराः सर्वे युद्धसमन्विताः
हत्वा ते रक्षिणः सर्वाँल्लुंठयित्वा पुरं शुभम्
राज्ञोऽन्तः पुरमागत्य कृष्णांशो बलवत्तरः सप्तालिभिर्वृतां रम्यां गीतनृत्यविशारदाम् ।। 3.3.19.