सभायां लक्षणो वीरो यात्राकाले तमब्रवीत् नभोमार्गेण संप्राप्तौ योगिनौ च शिवाज्ञया
जहतुस्तौ च मां जित्वा तत्तीक्ष्णभय मोहितम् इत्युक्तवंतं तं नत्वा ययुर्भूपाः स्वमालयम्
सागराख्यसरस्तीरे कदाचिदिंदुलो बली
एतस्मिन्नंतरे हंसा आकाशाद्भू मिमागताः
वक्ष्यमाणं वचः प्राहुर्धन्योऽयं दिव्यविग्रहः
महावती पुरीणां च सागरः सरसामपि
भो इन्दुल महाप्राज्ञ मानसे सरसि स्थिताः
दृष्ट्वा तत्र शुभां नारीं सर्वाभरणभूषिताम्
दृष्ट्वा मोहत्वमापन्ना वयं देशान्तरं गताः त्वत्समो न हि कोऽप्यत्र पद्मिनी सदृशो वरः
तस्मात्त्वं नः समारुह्य तां देवीं द्रष्टुमर्हसि
सिंहलद्वीपके रम्ये ह्यार्यसिंहो नृपः स्थितः रागिण्यः सप्त विख्यातास्तत्सख्यः प्रमदोत्तमाः
नलिनीसागरे रम्ये गिरिजामंदिरं शुभम् 3.3.18.
सापि तं सुन्दरं दृष्ट्वा हंसदेहे समास्थितम्
वर्षमेकं ययौ तत्र नानालीलासु मोहितः
भक्तिगर्वत्वमापन्ने चाह्लादे जगदंबिका
तस्य प्राप्तं महद्दुःखमाह्लादस्य जयैषिणः
इन्दुलं रूपसम्पन्नं लंकापुरनिवासिनः
इति श्रुत्वा वचो घोरं सकुलो विललाप ह
कृष्णांशो रुदितं प्राहाह्लादं ज्येष्ठं शृणुष्व भोः इंदुलं त्वां समेष्यामि भवान्धैर्यपरो भवेत्
बलखानिश्च कृष्णांशो देवसिंहश्च तालनः
मार्गप्राप्ताश्च ये भूपा ग्रामपा राष्ट्रपास्तथा
ये भूपा मदमत्ताश्च जित्वा तांस्तालनो बली 3.3.18.
पूजयित्वा च रामेशं रामेण स्थापितं शिवम्
नलिनीसागरं प्राप्य तत्र वासमकारयन्
आर्य्यसिंह महाभाग स्वपोतान्देहि तीर्णकान् नो चेत्त्वां सबलं जित्वा राष्ट्रभंगं करोम्यहम्
इति श्रुत्वा पत्रवचो भूपतिर्बलवत्तरः
इन्दुलः स्तंभनं मंत्रं संस्थाप्य शर उत्तमे
दिवसे सुखशर्मा च त्रिलक्षैः स्वदलैः सह
निशामुखे च संप्राप्ते शक्रपुत्रो महाबलः। शतपुत्रैः क्षत्रियाणां सार्द्धं युद्धाय चाययौ
तेषां हया हरिद्वर्णा योगिवेषधरा बलात् तत्पश्चाद्गेहमासाद्य तदा तैः सुखितोऽवसत्