चतुर्युगकृते तुभ्यं वासुदेवाय साक्षिणे
नमः शक्त्यवताराय रामकृष्णाय ते नमः
नमो भक्तावताराय कल्पक्षेत्रनिवासिने मम प्रियस्य म्लेच्छस्य तत्पित्रा वंशनाशनम्
प्राप्तवान्स हरिः साक्षाद्भगवान्भक्तवत्सलः
बहुरूपमहं कृत्वा तवेच्छां पूरयाम्यहम्
विष्णुकर्दमतो जातौ .म्लेच्छवंशप्रवर्धनौ
गिरिं नीलाचलं प्राप्य किंचित्कालमवासयत् 3.1.4.
पितुस्तुल्यं कृतं राज्यमनपत्यो मृतिं गतः
भविष्यंति भृगुश्रेष्ठ तस्माच्च तुहिनाचलम्
इति श्रुत्वा द्विजाः सर्वे नैमिषारण्यवासिनः
इति व्यासेन कथितं वाक्यं कलिविशारदम्
कलेर्युगस्य पूर्णां तां तच्छ्रुत्वा तृप्तिमावह
सूत उवाच षोडशाब्दसहस्रे च शेषे तद्द्वापरे युगे
क्वचिद्विप्राः स्मृता भूपाः क्वचिद्राजन्यवंशजाः
द्विशताष्टसहस्रे द्वे शेषे तु द्वापरे युगे
इंद्रियाणि दमित्वा यो ह्यात्मध्यानपरायणः
प्रदाननगरस्यैव पूर्वभागे महावनम् 3.1.4.
पापवृक्षतले गत्वा पत्नीदर्शनतत्परः
वंचिता तेन धूर्तेन विष्ण्वाज्ञा भंगतां गता
उदुंबरस्य पत्रैश्च ताभ्यां वाय्वशनं कृतम्
त्रिंशोत्तरं नवशतं तस्यायुः परिकीर्तितम्
तस्माज्जातः सुतः श्रेष्ठः श्वेतनामेति विश्रुतः
अनुहस्तस्य तनयः शतहीनं कृतं पदम्
महल्ललस्तस्य सुतः पंचहीनं शतं नव
तस्माच्च विरदो जातो राज्यं षष्ट्युत्तरं समाः
हनूकस्तस्य तनयो विष्णु भक्तिपरायणः
त्रिशतं पंचषष्टिश्च राज्यं वर्षाणि तत्स्मृतम् 3.1.4.
आचारश्च विवेकश्च द्विजता देवपूजनम्
विष्णुभक्त्यग्निपूजा च ह्यहिंसा च तपो दमः
मतोच्छिलस्तस्य सुतो हनुकस्यैव भार्गव