कुबेरात्स समानीय दिव्यमाभूषणं ददौ
आह्लादस्तु स्वयं गत्वा वेलाये भूषणं ददौ
संप्राप्ते प्रथमावर्ते तारकः खड्गमाददौ 3.3.17.
नृहरिस्तु द्वितीये च कृष्णांशं प्रति चारुधत्
मर्दनं सुखखानिस्तु चतुर्थावर्तकेऽरुधत् देवस्तु वर्धनं वीरं सप्तावर्ते क्रमाद्ययौ
शतभूपान्खड्गधरान्गजसेनादिकांस्तदा
भग्नभूतं नृपबलं दृष्ट्वा राजा रुषान्वितः
जित्वा तान्नेत्रसिंहादीञ्छब्दवेधी नृपोत्तमः
शिवं मनसि संस्थाप्य जित्वा बद्ध्वा रुषान्वितः
श्रुत्वा परिमलो राजा कृष्णांशं भीरुको ययौ
अजितः स च कृष्णांशो नभोमार्गेण मंदिरम्
तदा स लक्षणो वीरस्त्यक्त्वा बंधनमुत्तमम्
गृहीत्वा चागमां दोलां स्वयं शिबिरमाप्तवान् ।। 3.3.17.
एतस्मिन्नंतरे सर्वे त्यक्त्वा मूर्च्छां समंततः
सान्वयाञ्छतभूपांश्च हत्वा तद्रुधिरावहैः
विवाहान्ते च ते सर्वे शिबिराणि समाययुः
भुक्तवत्सु सुवीरेषु साहस्रास्तैः सुतैः सह
सहस्रशूरांस्तान्हत्वा पुनर्बद्ध्वा महाबलान्
दशलक्षसुवर्णानि गृहीत्वा नृपतिर्बली
प्रद्योतसुत हे राजँल्लक्षणोऽसौ महाबलः
इति श्रुत्वा परिमलः सर्व भूपसमन्वितः
तदा महासती वेला विललाप भृशं मुहुः तामाश्वास्य तदा वेलां नभोमार्गेण चाययौ
लक्षणं तर्जयित्वासौ गृहीत्वा चागमन्मुदा 3.3.17.
पुनस्त्यक्त्वा सप्त सुतान्सहितान्नृपतेस्तु ते उषित्वा दशरात्रांते दध्युर्गंतुमनो मुने
महीराजस्तु बलवान्गृहीत्वा भूपतेः पदौ
महाराज वधूस्ते च वेलेयं द्वादशाब्दिका
तस्मात्तां त्वं परित्यज्य गच्छ गेहं सुखी भव
इत्यु्क्त्वा च वचो राजा स स्नेहादंकमस्पृशत् महीराजं स पस्पर्श स राजा चूर्णतां गतः
भग्नास्थी भूपती चोभौ पावकीयैश्चिकित्सकैः
मलना स्वसुतं दृष्ट्वा प्राप्तमुद्वाहितं गृहे होमं वै कारयामास चंडिकायाः प्रसादतः