सैन्यैर्द्वादशलक्षैश्च सहितस्तालनो बली
देवो मनोरथारूढो विंदुलस्थः स कृष्णकः
रूपणश्च करालस्थ आह्लादश्च पपीहके 3.3.17.
रणजिन्मलनापुत्रः संस्थितो हरिनागरे
विमानवरमारुह्य धीवरैः शतवाहिकैः
अयुतैश्च पताकैश्च वेत्रपाणिसहक्रकैः
शकटैर्महिषोढैस्तु तथा पञ्चसहस्रकैः
श्रुत्वा कोलाहलं तेषां महीराजो नृपोत्तमः
दुर्गद्वारि क्रियां रम्यां कृत्वा विधिविधानतः
इन्दुलस्तु ययौ स्वर्गं वासवं प्रति चाब्रवीत्
कुबेरात्स समानीय दिव्यमाभूषणं ददौ
आह्लादस्तु स्वयं गत्वा वेलाये भूषणं ददौ
संप्राप्ते प्रथमावर्ते तारकः खड्गमाददौ 3.3.17.
नृहरिस्तु द्वितीये च कृष्णांशं प्रति चारुधत्
मर्दनं सुखखानिस्तु चतुर्थावर्तकेऽरुधत् देवस्तु वर्धनं वीरं सप्तावर्ते क्रमाद्ययौ
शतभूपान्खड्गधरान्गजसेनादिकांस्तदा
भग्नभूतं नृपबलं दृष्ट्वा राजा रुषान्वितः
जित्वा तान्नेत्रसिंहादीञ्छब्दवेधी नृपोत्तमः
शिवं मनसि संस्थाप्य जित्वा बद्ध्वा रुषान्वितः
श्रुत्वा परिमलो राजा कृष्णांशं भीरुको ययौ
अजितः स च कृष्णांशो नभोमार्गेण मंदिरम्
तदा स लक्षणो वीरस्त्यक्त्वा बंधनमुत्तमम्
गृहीत्वा चागमां दोलां स्वयं शिबिरमाप्तवान् ।। 3.3.17.
एतस्मिन्नंतरे सर्वे त्यक्त्वा मूर्च्छां समंततः
सान्वयाञ्छतभूपांश्च हत्वा तद्रुधिरावहैः
विवाहान्ते च ते सर्वे शिबिराणि समाययुः
भुक्तवत्सु सुवीरेषु साहस्रास्तैः सुतैः सह
सहस्रशूरांस्तान्हत्वा पुनर्बद्ध्वा महाबलान्
दशलक्षसुवर्णानि गृहीत्वा नृपतिर्बली
प्रद्योतसुत हे राजँल्लक्षणोऽसौ महाबलः