भुवि तस्यां च जातायां भूकम्पो दारुणोऽभवत् रक्तवृष्टिः पुरे चासीदस्थिशर्करया युता
ब्राह्मणाश्च समागत्य जातकर्मादिकां क्रियाम्
इला च शशिनो माता विकल्पेनाऽभवद्भुवि 3.3.17.
जातायां च सुतायां स पिता विप्रेभ्य उत्तमम्
द्वादशाब्दवयः प्राप्ते सा सुता वरवर्णिनी
मंडपे रक्तधाराभिर्यो मां संस्नापयिष्यति
स्वर्णपत्रे तदा राजा पद्यं वेलामुखोद्भवम्
सार्द्धं लक्षत्रयं द्रव्यं गृहीत्वा लक्षसैन्यकः
सिंधुस्थाने चार्यदेशे भूपं भूपं ययौ बली महीपतिं स संप्राप्य मातुलं तद्वचोऽब्रवीत्
श्रुत्वा स आह भो वीर ब्रह्मानन्दो महाबलः
किं त्वया विदितं नैव चरितं तस्य विश्रुतम्
ते सर्वे वशगास्तस्य ब्रह्मानंदस्य धीमतः
इति श्रुत्वा ययौ तूर्णं तारकः स्वबलैः सह 3.3.17.
कृष्णांशस्तु गृहीत्वाशु पद्यं वाक्यमुवाच ह
तूष्णीं भूतास्तदा सर्वे तारकः स द्विजैः सह
माघमासे सिते पक्षे त्रयोदश्यां सुवासरे
सप्तलक्षबलैः सार्द्धं लक्षणश्च सतालनः
आह्लादो लक्षसैन्याढ्यः कृष्णांशेन समन्वितः
नेत्रसिंहो लक्षसैन्यो योगभोगसमन्वितः
एवं द्वादशलक्षाणां सैन्यानामधिपो बली
सैन्यैर्द्वादशलक्षैश्च सहितस्तालनो बली
देवो मनोरथारूढो विंदुलस्थः स कृष्णकः
रूपणश्च करालस्थ आह्लादश्च पपीहके 3.3.17.
रणजिन्मलनापुत्रः संस्थितो हरिनागरे
विमानवरमारुह्य धीवरैः शतवाहिकैः
अयुतैश्च पताकैश्च वेत्रपाणिसहक्रकैः
शकटैर्महिषोढैस्तु तथा पञ्चसहस्रकैः
श्रुत्वा कोलाहलं तेषां महीराजो नृपोत्तमः
दुर्गद्वारि क्रियां रम्यां कृत्वा विधिविधानतः
इन्दुलस्तु ययौ स्वर्गं वासवं प्रति चाब्रवीत्