गजमुक्ताज्ञया विप्र सेनापतरिरुदारधीः बलखानिर्हयारूढो गजमुक्ता च मंडपे
गजसेनस्तदा दिव्यैर्भोजनैस्तानभोजयत् लक्षशूरान्स संस्थाप्य स्वयं रुद्रपुरं ययौ
ते रात्रौ लोहदुर्गेषु ह्युषित्वा यत्नतो बलात् द्वारमुद्घाटयाशु त्वं नो चेत्प्राणांस्त्यजिष्यसि
इति सेनापतिः श्रुत्वा लक्षशूरान्समादिशत्
इति श्रुत्वा तु ते शूराः शतघ्न्यस्तैः सुरोपिताः
हते दशसहस्रे तु कृष्णांशो बिंदुलं हयम्
हतशेषा भयार्ताश्च सहयाशीतिसम्मिताः
श्रुत्वा भयातुरो राजा स्वसुताभ्यां समन्वितः स्वपापं क्षालयामास दत्त्वा कन्यां विधानतः
षोडशोष्ट्राणि स्वर्णानि गृहीत्वाह्लाद एव सः 3.3.16.
संप्राप्ते गेहमाह्लादे देवी स्वर्णवती स्वयम्
मृताहं च त्वया पुत्र पुनरुज्जीविता खलु
इति श्रुत्वेन्दुलो वीरो नत्वाह जननीं मुदा
संप्राप्ते गेहमाह्लादे राजा परिमलः सुधीः
मृते कृष्णकुमारे तु भूपतौ रत्नभानुना
महीराजः सुदुःखार्तो लक्षचंडीमकारयत्
वर्षेवर्षे तु ते सप्त भविष्यंत्यंगसम्भवाः
इत्युक्ते वचने तस्मिन्राज्ञी गर्भमथो दधौ
द्वितीयाब्दे तथा जाते दुश्शासनशुभांशतः
उद्धर्षांशः सरदनो दुर्मुखांशस्तु मर्दनः
वर्द्धनश्चित्रबाणांशो वेला तदनु चाभवत्
भुवि तस्यां च जातायां भूकम्पो दारुणोऽभवत् रक्तवृष्टिः पुरे चासीदस्थिशर्करया युता
ब्राह्मणाश्च समागत्य जातकर्मादिकां क्रियाम्
इला च शशिनो माता विकल्पेनाऽभवद्भुवि 3.3.17.
जातायां च सुतायां स पिता विप्रेभ्य उत्तमम्
द्वादशाब्दवयः प्राप्ते सा सुता वरवर्णिनी
मंडपे रक्तधाराभिर्यो मां संस्नापयिष्यति
स्वर्णपत्रे तदा राजा पद्यं वेलामुखोद्भवम्
सार्द्धं लक्षत्रयं द्रव्यं गृहीत्वा लक्षसैन्यकः
सिंधुस्थाने चार्यदेशे भूपं भूपं ययौ बली महीपतिं स संप्राप्य मातुलं तद्वचोऽब्रवीत्
श्रुत्वा स आह भो वीर ब्रह्मानन्दो महाबलः