विषदोषमसृक्द्वारान्निस्सृतं सर्वदेहतः
राजन्किमीदृशं जातं त्वत्सैन्यं ताडने रतम् यातनां प्रथमं प्राप्य तदनूद्वाहितो भवेत्
इत्युक्ते सति भूपाले गजमुक्ता समागता
नृपः प्राह सुते शीघ्रं याहि त्वं निजमंदिरे
इति श्रुत्वा वचो घोरं बलखानिर्महाबलः
शूरान्पंचशतं तं च रुद्ध्वा शस्त्रैः समंततः
गजसेन सुतो ज्येष्ठः सूर्यद्युतिरुपागतः
तथा गतं पतिं दृष्ट्वा गजमुक्ता सुदुःखिता
पतिं निष्कास्य रुदती व्यजनं पतये ददौ 3.3.16.
एतस्मिन्नंतरे वीरश्चाह्लादः सप्तलक्षकैः
बलखानिर्गतो गर्ते रुरोध नगरीं तदा
त्रिलक्षैश्च हयैः सार्द्धं सूर्यद्युतिरुपाययौ
तयोश्चासीन्महद्युद्धमहोरात्रं हि सैन्ययोः
द्वितीयेऽह्नि समायाते गजसेनो महाबलः दाहयामास तत्सैन्यं तालनाद्यैश्च पालितम्
भस्मीभूतं बलं दृष्ट्वा तालनः शत्रुसम्मुखे
मूर्छितं नृपमाज्ञाय सूर्यद्युतिरुपाययौ
एतस्मिन्नंतरे शूरौ देवौ चाह्लादकृष्णकौ
सुबद्धं भ्रातरं ज्ञात्वा हयं कांतामलोऽरुहत् गृहीत्वा तं स कृष्णांशं तस्य तेजः समाहरत्
सप्तलक्षबलं सर्वं वह्निभूतमभूत्तदा 3.3.16.
गजसेनस्यार्द्धसैन्यं तैश्च सर्वैर्विनाशितम् ।। विजयं नृपतिः प्राप्य हर्षितो गेहमाययौ
वह्निभूतं च कृष्णांशं दृष्ट्वाह्लादः सुदुःखितः
तदा देवी वचः प्राह वत्स ते पुत्र एव च
इत्युक्ते वचने देव्या इन्दुलो वासवाज्ञया वडवामृतमारुह्य हयं तत्र समागतः
तदङ्गादुद्धृता वाहा मेघा इव समन्ततः
शमीभूते तदा वह्नौ स्वमुखात्सहयो मुदा
जीविते सप्तलक्षे तु शमीभूते हि पावके
लक्षं सैन्यं तु ये शिष्टास्ते सर्वेऽपि भयातुराः
केचित्संन्यासिनो भूत्वा केचिद्वै ब्रह्मचारिणः
बद्ध्वा तान्गजसेनादींस्त्रीञ्छूरान्स च तालनः 3.3.16.
बलखानिं च निष्कास्य तालनस्तदनंतरम् तान्वीरांस्ताडयामास वेतसैः स्तंभबंधनैः