दृष्ट्वा ततस्तु चंडालान्बलखानिरताडयत्
मृते पंचशते रौद्रे तच्छेषा दुद्रुवुर्भयात्
स नृपः कारणं ज्ञात्वा हस्तबद्धो महाबली
भवान्महाबलो वीर चांडालैर्बंधनं गतः
मत्सुता भवने प्राप्ता दिष्ट्या त्वं जीवितं गतः इति श्रुत्वा प्रियं वाक्यं तं प्रशस्य तथाकरोत्
मंडपे वेदकर्माणि विवाहार्थं चकार सः
तदाज्ञया लिखित्वासौ गजसेनोऽग्निसेवकः
बलखानेर्विवाहोऽत्र भवान्सैन्यसमन्वितः
इत्युक्ते निशि जातायां बलखानिर्महाबलः 3.3.16.
गरलं तेन संभुक्तं न ममार वराच्छुभात् पुनर्बबंध निगडैस्ताडयामास वेतसैः
विषदोषमसृक्द्वारान्निस्सृतं सर्वदेहतः
राजन्किमीदृशं जातं त्वत्सैन्यं ताडने रतम् यातनां प्रथमं प्राप्य तदनूद्वाहितो भवेत्
इत्युक्ते सति भूपाले गजमुक्ता समागता
नृपः प्राह सुते शीघ्रं याहि त्वं निजमंदिरे
इति श्रुत्वा वचो घोरं बलखानिर्महाबलः
शूरान्पंचशतं तं च रुद्ध्वा शस्त्रैः समंततः
गजसेन सुतो ज्येष्ठः सूर्यद्युतिरुपागतः
तथा गतं पतिं दृष्ट्वा गजमुक्ता सुदुःखिता
पतिं निष्कास्य रुदती व्यजनं पतये ददौ 3.3.16.
एतस्मिन्नंतरे वीरश्चाह्लादः सप्तलक्षकैः
बलखानिर्गतो गर्ते रुरोध नगरीं तदा
त्रिलक्षैश्च हयैः सार्द्धं सूर्यद्युतिरुपाययौ
तयोश्चासीन्महद्युद्धमहोरात्रं हि सैन्ययोः
द्वितीयेऽह्नि समायाते गजसेनो महाबलः दाहयामास तत्सैन्यं तालनाद्यैश्च पालितम्
भस्मीभूतं बलं दृष्ट्वा तालनः शत्रुसम्मुखे
मूर्छितं नृपमाज्ञाय सूर्यद्युतिरुपाययौ
एतस्मिन्नंतरे शूरौ देवौ चाह्लादकृष्णकौ
सुबद्धं भ्रातरं ज्ञात्वा हयं कांतामलोऽरुहत् गृहीत्वा तं स कृष्णांशं तस्य तेजः समाहरत्
सप्तलक्षबलं सर्वं वह्निभूतमभूत्तदा 3.3.16.
गजसेनस्यार्द्धसैन्यं तैश्च सर्वैर्विनाशितम् ।। विजयं नृपतिः प्राप्य हर्षितो गेहमाययौ