आस्थितः स कथामध्ये नारदोऽभ्यागमत्तदा
तं दृष्ट्वा हर्षितो राजा पूजयामास धर्मवित्
म्लेच्छैर्हतस्तव पिता यमलोकमतो गतः
तच्छ्रुत्वा क्रोधताम्राक्षो ब्राह्मणान्वेदवित्तमान्
यज्ञकुंडं चतुष्कोणं योजनान्येव षोडश
हारहूणान्बर्बरांश्च गुरुंडांश्च शकान्खसान्
द्वीप स्थितान्कामरूश्च चीनान्सागरमध्यगान्
ब्राह्मणान्दक्षिणां दत्त्वा अभिषेकमकारयत्
म्लेच्छहंता नाम तस्य विख्यातं भुवि सर्वतः 3.1.4.
स्वर्गलोकं गतो राजा तत्पुत्रो वेदवान्स्मृतः नारायणं पूजयित्वा दिव्यां स्तुतिमथाकरोत्
चतुर्युगकृते तुभ्यं वासुदेवाय साक्षिणे
नमः शक्त्यवताराय रामकृष्णाय ते नमः
नमो भक्तावताराय कल्पक्षेत्रनिवासिने मम प्रियस्य म्लेच्छस्य तत्पित्रा वंशनाशनम्
प्राप्तवान्स हरिः साक्षाद्भगवान्भक्तवत्सलः
बहुरूपमहं कृत्वा तवेच्छां पूरयाम्यहम्
विष्णुकर्दमतो जातौ .म्लेच्छवंशप्रवर्धनौ
गिरिं नीलाचलं प्राप्य किंचित्कालमवासयत् 3.1.4.
पितुस्तुल्यं कृतं राज्यमनपत्यो मृतिं गतः
भविष्यंति भृगुश्रेष्ठ तस्माच्च तुहिनाचलम्
इति श्रुत्वा द्विजाः सर्वे नैमिषारण्यवासिनः
इति व्यासेन कथितं वाक्यं कलिविशारदम्
कलेर्युगस्य पूर्णां तां तच्छ्रुत्वा तृप्तिमावह
सूत उवाच षोडशाब्दसहस्रे च शेषे तद्द्वापरे युगे
क्वचिद्विप्राः स्मृता भूपाः क्वचिद्राजन्यवंशजाः
द्विशताष्टसहस्रे द्वे शेषे तु द्वापरे युगे
इंद्रियाणि दमित्वा यो ह्यात्मध्यानपरायणः
प्रदाननगरस्यैव पूर्वभागे महावनम् 3.1.4.
पापवृक्षतले गत्वा पत्नीदर्शनतत्परः
वंचिता तेन धूर्तेन विष्ण्वाज्ञा भंगतां गता
उदुंबरस्य पत्रैश्च ताभ्यां वाय्वशनं कृतम्