कुंडिकेयं च भो भक्ताः पूरयामि च तामहम्
सुखखानिस्तु बलवान्मधुपुष्पैस्तथा फलैः बलखानिस्तथा मांसैर्मूलशर्मा तु रक्तकैः
देवकी च तदा हव्यैश्चन्दनादिभिरर्चनैः
आह्रादश्चैव सर्वांगैरुदयः शिरसा स्वयम्
उवाच वचनं देवी स्वभक्तान्भक्तवत्सला
बलखानिर्महावीरो दीर्घे काले स मृत्युभाक् 3.3.15.
देवकी च भवेद्देवी चिरकालं स्वलोकगा एकस्तु देववत्प्रोक्तो बलाधिक्यो द्वितीयकः
निष्कामोऽयं देवसिंहो मृतो मोक्षत्वमाप्नुयात्
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये पञ्चदशोऽध्यायः
शृणु त्वं मुनिशार्दूल दृष्टं यद्योगदर्शनात्
रत्नभानौ मृते राज्ञि मरुधन्वमहीपतिः
आराध्य पावकं देवं यज्ञध्यानव्रतार्चनैः
तदा प्रसन्नो भगवान्पावकीयं हयं शुभम्
पावकास्ते हि चत्वारः समुद्भूता महीतले
अष्टादशवयोभूताः सर्वे ते मुनिपुंगव
अष्टादशाब्दवयसा सा कन्या वरवर्णिनी
शार्दूलवंशी स नृपः कृतवान्वै स्वयंवरम्
मार्गशीर्षे सिते पक्षे चाष्टम्यां चंद्रवासरे
विद्युद्वर्णं मुखं तस्याश्चंचलायास्तथागतम् 3.3.16.
सापि दृष्ट्वा च तं वीरं मुमोह गजमुक्तिका
तारकाद्याश्च भूपालाः सर्वशस्त्रास्त्रसंयुताः
तथाविधान्नृपान्दृष्ट्वा भूपान्पंचशतान्बली
सर्वतो वध्यमानं तं बलखानिं स तारकः
महीराजसुतो ज्येष्ठो दृष्ट्वा खड्गं तथा गतम्
पराजिते नृपबले बलखानिर्महाबलः
तां गच्छंतीं सुतां दृष्ट्वा गजसेनो महीपतिः
जंबुकघ्नं महावीरं मायया तममोहयत्
निगडैस्तं बबंधाशु दृढैर्लोहमयै रुषा
चांडालांश्च समाहूय कठिनांस्तत्रवासिनः 3.3.16.
ते रौद्रास्तं समाबध्य ताडयामासुरूज्जिताः