ज्ञात्वाह्लादं तथा भूतं दशग्रामे तथाविधे
आह्लादः स्वकुलैः सार्द्धं निराहारो यतेंद्रियः
तदा तुष्टा स्वयं देवी वागुवाचाशरीरिणी
इन्द्रपुत्रो जयन्तश्च स्वर्गलोकमुपागतः
यावत्त्वं भूतलेऽवात्सीस्तावत्स भूतले वसेत्
इत्युक्ते वचने देव्या निश्शोकास्ते तदाभवन्
शारदां पूजयामासुः सर्वलोकनिवासिनीम्
जप्त्वा सप्तशती स्तोत्रं त्रिसन्ध्यं प्रेमभक्तितः
सामन्तद्विजपुत्रश्च चामुण्डो नाम विश्रुतः
द्वादशाब्दे ततो जाते त्रिचरित्रस्य पाठतः
कुंडिकेयं च भो भक्ताः पूरयामि च तामहम्
सुखखानिस्तु बलवान्मधुपुष्पैस्तथा फलैः बलखानिस्तथा मांसैर्मूलशर्मा तु रक्तकैः
देवकी च तदा हव्यैश्चन्दनादिभिरर्चनैः
आह्रादश्चैव सर्वांगैरुदयः शिरसा स्वयम्
उवाच वचनं देवी स्वभक्तान्भक्तवत्सला
बलखानिर्महावीरो दीर्घे काले स मृत्युभाक् 3.3.15.
देवकी च भवेद्देवी चिरकालं स्वलोकगा एकस्तु देववत्प्रोक्तो बलाधिक्यो द्वितीयकः
निष्कामोऽयं देवसिंहो मृतो मोक्षत्वमाप्नुयात्
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये पञ्चदशोऽध्यायः
शृणु त्वं मुनिशार्दूल दृष्टं यद्योगदर्शनात्
रत्नभानौ मृते राज्ञि मरुधन्वमहीपतिः
आराध्य पावकं देवं यज्ञध्यानव्रतार्चनैः
तदा प्रसन्नो भगवान्पावकीयं हयं शुभम्
पावकास्ते हि चत्वारः समुद्भूता महीतले
अष्टादशवयोभूताः सर्वे ते मुनिपुंगव
अष्टादशाब्दवयसा सा कन्या वरवर्णिनी
शार्दूलवंशी स नृपः कृतवान्वै स्वयंवरम्
मार्गशीर्षे सिते पक्षे चाष्टम्यां चंद्रवासरे
विद्युद्वर्णं मुखं तस्याश्चंचलायास्तथागतम् 3.3.16.
सापि दृष्ट्वा च तं वीरं मुमोह गजमुक्तिका