ससुतं भ्रातरं ज्येष्ठं नृपं पूर्णबलं ततः
रुरोदोच्चैस्तदा देवीं ध्यायंती कामरूपिणीम् । । तदा तुष्टा जगद्धात्री मूर्च्छितांस्तानबोधयत्
यथा बद्धः स्वयं स्वामी कथयामास सा तथा ।। अहं शुकी भवाम्यद्य भवान्बिंदुलसंस्थितः । ।। 3.3.13.१२
इत्युक्त्वा सा शुकी भूत्वा कृष्णांशेन समन्विता
आश्वास्य तं यथायोग्यं कृष्णांशं प्रत्यवर्णयत्
रक्षकाञ्छतसाहस्रान्हत्वा भ्रातरमाययौ । । पौर्णिमां मधुयुक्तां च ज्ञात्वा सर्वे त्वरान्विताः
स्नानध्यानादिका निष्ठाः कृत्वा गेहमुपाययुः ।। सागरस्य तटं प्राप्य कृत्वा ते च महोत्सवम् । । चैत्रस्य कृष्णपञ्चम्यां स्वगेहं पुनराययुः
दूता उष्ट्रसमारूढास्तत्क्षेमकरणोत्सुकाः । । वैशाखे शुक्लपंचम्यां स्वगेहं पुनराययुः
मलना भूपतिश्चैव गेहेगेहे महोत्सवम् ।। कारयित्वा विधानेन ब्राह्मणेभ्यो ददौ धनम्
सूत उवाच चतुर्दशाब्दे कृष्णांशे यथा जातं तथा शृणु कलौ जन्मत्वमापन्नः स्वर्णवत्युदरेऽवसत्
चैत्रशुक्ल नवम्यां च मध्याह्ने गुरुवासरे
जाते तस्मिन्सुतश्रेष्ठे देवाः सर्षिगणास्तदा इत्यूचुर्वचनं तस्मादिन्दुलो नाम चाभवत्
आह्लादो जातकर्मादीन्कारयित्वा शिशोर्मुदा
इन्दुले तनये जाते द्विमासांते महीतले नेत्रसिंह सुतं दृष्ट्वा मलनास्नेहसंयुता
शतवृन्दाश्च नर्तक्यो नानारागेण संयुताः
सप्तरात्रमुषित्वा स योगसिंहो ययौ गृहम्
पुत्रस्नेहेन तं पुत्रं स जहार स्वमायया
स्नेहप्लुता शची देवी स्वस्तनौ तमपाययत् 3.3.14.
इन्दुं पीयूषभवनं गृह्णाति वपुषा स्वयम् स बालः स्वपितुर्विद्यां पठित्वा श्रेष्ठतामगात्
विनष्टे बालके तस्मिन्देवी स्वर्णवती तदा
ज्ञात्वाह्लादं तथा भूतं दशग्रामे तथाविधे
आह्लादः स्वकुलैः सार्द्धं निराहारो यतेंद्रियः
तदा तुष्टा स्वयं देवी वागुवाचाशरीरिणी
इन्द्रपुत्रो जयन्तश्च स्वर्गलोकमुपागतः
यावत्त्वं भूतलेऽवात्सीस्तावत्स भूतले वसेत्
इत्युक्ते वचने देव्या निश्शोकास्ते तदाभवन्
शारदां पूजयामासुः सर्वलोकनिवासिनीम्
जप्त्वा सप्तशती स्तोत्रं त्रिसन्ध्यं प्रेमभक्तितः
सामन्तद्विजपुत्रश्च चामुण्डो नाम विश्रुतः
द्वादशाब्दे ततो जाते त्रिचरित्रस्य पाठतः