तस्मै योग्याय सा कन्या रामांशाय यशस्विने
इत्युक्त्वा च स्वयं देवो ढक्कामृतमुमाप्रियम्
गते तस्मिन्सुरपतो स राजा ब्राह्मणैः सह
तथागतं नृपं दृष्ट्वा कृष्णांशश्च महीपतिः
राजन्नयं स बलवानाह्रादः सानुजैः सह
आर्याभीरी स्मृता तेषां किं त्वया विदितं न हि
अतस्त्वं वचनं चेदं कुलयोग्यं शृणुष्व भोः 3.3.13.
वञ्चयित्वा विवाहार्थे शिरांस्येषां समाहर
त्वत्कन्यया समाहूता वीरा वै रेवती हि सा
नो चेद्भवान्क्षयं यायात्सकुलो जंबुको यथा
इति श्रुत्वा स शल्यांशः सुयोधनमुखेरितम् आह्लादस्य समीपं स गत्वैतद्वंचनाय हि
भवन्तोंशावताराश्च मया ज्ञाताः सुरोत्तमात् रामांशाय स्वकन्यां च दास्यामि कुलरीतितः
इत्याह्रादं समादिश्य स नृपश्छलमाश्रितः
सहस्रं मंडपे भूपान्संस्थाप्य स्वबलैः सह
विवाहप्रथमावर्ते योगसिंहोऽसिमुत्तमम्
तमाह तालनो धीमान्न योग्यं भवता कृतम् निरायुधैः परैः सार्द्धं शस्त्रिणां संगरो हि नः
इति श्रुत्वा योगसिंहं कृष्णांशस्तं समारुधत् 3.3.13.
विजयं तृतीयावर्ते सुखखानिर्न्यरुंद्ध वै रूपणस्तं गृहीत्वाशु युयुधे तद्बलैः सह
पंचमे बहुराजानं तालनश्च समारुधत्
एतस्मिन्नन्तरे देवः कालदर्शी समागतः
बिन्दुलं चैव कृष्णांशो देवस्तत्र मनोरथम्
हरिणीं बलखानिश्च तद्भ्राता हरिनागरम्
रात्रौ तन्नृपतेः सेनां हत्वा बद्ध्वा च तत्पतिम्
स्वसैन्यं ते समाजग्मुर्निर्भया बलवत्तराः
निगडैरेकतः कृत्वा पञ्च भूपान्हि वंचकान्
नेत्रसिंहो वरो भ्राता सुन्दरारण्यभूमिपः 3.3.13.
तत्रागत्य हरानन्दो नाम्ना तानयुधद्बली । । नेत्रसिंहस्य सैन्यं च चतुर्लक्षं तदागमत्
पञ्चलक्षै रणो घोरः सप्तलक्षयुतैरभूत् अर्द्धसैन्यं रिपोस्तत्र हतशेषमदुद्रुवत्
विस्मितः स हरानन्दो रुद्रमायाविशारदः ।। बलाधिक्ययुताञ्ज्ञात्वा शिवध्यानपरोऽभवत्
रचित्वा शांबरीं मायां नानारूपविधारिणीम् । । पाषाणभूतान्सकलान्कृत्वा भूपान्समाययौ