इति श्रुत्वा प्रसन्नात्मा सप्त लक्षदलैर्युतः
नेत्रसिंहस्तु बलवान्पार्वतीयैर्नृपैः सह
सहस्रं च गजास्तस्य हया लक्षं महाबलाः
योगसिंहो गजैः सार्द्धं बलखानिं समाह्वयत्
विजयो नृपपुत्रश्च सर्वभूपतिभिः सह
तयोश्चासीन्महद्युद्धं सेनयोस्तत्र दारुणम् जघ्नुस्ते शात्रवीं सेनां द्विलक्षां वीरपालिताम्
प्रभग्नं स्वबलं दृष्ट्वा चत्वारो मदमत्तकाः पुनरुजीवितं सर्वं ढक्कामृतरवाद्बलम् ।। 3.3.13.
युद्धाय संमुखं प्राप भृगुश्रेष्ठ पुनः पुनः
एवं सप्ताह्नि संजाते युद्धे भीरुभयंकरे
पुनस्ते जीवमापन्ना जघ्नुस्तान्रिपुसैन्यपान् निराशां विजये प्राप्य कृष्णांशं शरणं ययुः
तानाश्वास्य स कृष्णांशस्तत्र दिव्यहये स्थितः
हर्म्योपरि स्थितां देवीं सर्वशोभासमन्विताम् शरण्यां त्वामुपागच्छं कामाक्षीमिव भामिनि
वृत्तान्तं कथयामास यथासीच्च महारणः
साह चोदयसिंह त्वं कामाक्ष्या मंदिरं व्रज
ढक्कामृतस्य वाद्येन पूजये सर्वकामदाम्
अर्धशेषां रणात्सेनां पराजाप्य च दुद्रुवुः
पराजिते रिपौ तस्मिन्नेत्रसिंहसुतैः सह 3.3.13.
नवम्यां पितरं प्राह देवी स्वर्णवती तदा यत्प्रसादाच्च विजयी दुर्जयेभ्योऽभवद्भवान्
इति श्रुत्वा पिता प्राह स्वप्नो दृष्टस्तथा मया
पित्रोक्तैवं निशायां तु सा सुता पितुराज्ञया
कृष्णांशो माल्यकारस्य वधूर्भूत्वा समागतः
एतस्मिन्नन्तरे वीराः षष्टिर्वाहनसंयुताः
तानागतान्स बलवान्दृष्ट्वा खड्गं गृहीतवान्
कृष्णांशस्त्वरितो गत्वा रूपणो यत्र तिष्ठति
हृते ढक्कामृते दिव्ये नेत्रसिंहो भयातुरः
प्रभाते समनुप्राप्ते ते वीराः स्वबलैः सह दिनान्ते प्राप्तवंतश्च यत्राभूत्समहारणः
कृष्णांशः पूजयित्वा तं दध्मौ ढक्कामृतं बली 3.3.13.
सप्तलक्षबलं तस्य पुनः प्राप्तं मदातुरम्
रुद्धे तु नगरे तस्मिन्नेत्रसिंहो भयातुरः
तदा प्रसन्नो भगवानुवाच नृपतिं प्रति