दृष्ट्वा तां सुंदरीं कन्यां बालेन्दुसदृशाननाम्
दृष्ट्वा तां च तथाह्रादः सर्वरत्नविभूषिताम् मूर्च्छितश्चापतद्भूमौ सा तं दृष्ट्वा मुमोह वै
दोलामारुह्य तत्सख्यौ नृपान्तिकमुपाययुः
दृष्ट्वा तथाविधं बंधुं कृष्णांशः प्राह दुःखितः
रजो रागात्मकं विद्धि प्रमादं मोहजं तथा
इति श्रुत्वा वचो भ्रातुस्त्यक्त्वा मोहं ययौ गृहम्
दुर्गामाराधयामास जप्त्वा मध्यचरित्रकम् 3.3.13.
मोहयामास तां कन्यां विवाहार्थमनिन्दिता
प्रातर्बुद्ध्वा तु संचिंत्य महामोहमुपाययौ
पौषमासे तु संप्राप्ते शुककंठे सुपत्रिकाम्
स गत्वा पुष्पविपिनं महावतिपुरीस्थितम्
वीर तेऽवरजो बंधुर्नाम्नाह्लादो महाबलः
तां ज्ञात्वा च पुनस्तस्या उत्तरं देहि मत्प्रियम्
इति श्रुत्वोदयो वीरो गृहीत्वा पत्रमुत्तमम्
जम्बुकश्च नृपो वीरो रुद्रदत्तवरो बली
तथाविधं मत्पितरमिंद्रदत्तवरं रिपुम्
इति ज्ञात्वा स आह्लादस्तामाश्वास्य हृदि स्थिताम् 3.3.13.
स शुकः पन्नगः पूर्वं पुंडरीकेन शापितः
मृते तस्मिञ्छुके रम्ये देवी स्वर्णवती तदा
माघमासि च संप्राप्ते पंचम्यां कृष्णपक्षके
तालनाद्याश्च ते शूराः स्वंस्वं वाहनमाश्रिताः
वंगदेशं समुल्लंघ्य शीघ्रं प्राप्ता हिमालयम्
गच्छ त्वं वीर कवची करालाश्वं समास्थितः
युद्धचिह्नं तनौ कृत्वा मामागच्छ त्वरान्वितः
स ददर्श सभां राज्ञो बहुशूरसमन्विताम्
स उवाच नृपश्रेष्ठं नेत्रसिंहं महाबलम् सप्तलक्षबलैर्गुप्तः संप्राप्तस्तव राष्ट्रके
तस्मात्त्वं स्वसुतां शीघ्रमाह्लादाय समर्पय 3.3.13.
इति श्रुत्वा वचस्तस्य स राजा क्रोधमूर्छितः अरुधत्स कपाटं च तस्य बंधनहेतवे
पाशहस्ताञ्छूरशतं पट्टनाधिपरक्षितान्
हत्वा तन्मुकुटं राज्ञो गृहीत्वाकाशगो बली