ते तु पूर्वभवे विप्र जरासंधः सकालियः
त्रिशिरास्तुदिलो जातः शृगालः स च जम्बुकः
हतेषु शत्रुपुत्रेषु देवकी जम्बुकं रिपुम्
कृष्णांशः शिरसी पित्रोर्गृहीत्वा स्नेहकातरः
विहस्य तौ तदा तत्र प्रोचतुर्वचनं प्रियम् इति वाणी तयोर्जाता बलिनो प्रेतदेहयोः
खड्गहस्ता च सा देवी शिलायंत्रे तु तं रिपुम्
हे पुत्राः स्वपितुः शत्रुं जम्बुकं पुरुषाधमम्
संचूर्णयत तद्गात्रं तत्तैलैर्मदनिर्मितैः 3.3.12.
तथा कृत्वा तु ते पुत्रा महिषीं ससुतां तदा
तदा परिमलं राज्ञी दृष्ट्वा स्वामिनमातुरम्
तत्सुता खड्गमानीय बलखानिभुजं प्रति
तालनं देवसिंहं च रामांशं च तथाविधम्
कृष्णांशं मोहयित्वाशु मायया च समाहरत् तच्छिरश्च समाहृत्य चितायां च समाक्षिपत्
तदा वाणी समुत्पन्ना बलखाने शृणुष्व भोः
फलमस्य विवाहे स्वे भोक्तव्यं पापकर्मणः
ततस्तु सैनिकाः सर्वे महाहर्षसमन्विताः
महावतीं समाजग्मुः कृतकृ त्यत्वमागताः
तत्पश्चात्स्व पुरीं प्राय तदा किमभवन्मुने
ज्येष्ठे मासि गृहं प्राप्ता दध्मुर्वाद्यान्यनेकशः
श्रुत्वा परिमलो राजा स्वसुताञ्जयिनो बलीन्
इति श्रुत्वा महीराजो बलखानिं महाबलम्
अर्द्धकोटिमितं द्रव्यं मत्तः प्राप्य सुखी भव
वर्षे वर्षे च तद्द्रव्यं गृहाण बलवन्प्रभो
वयस्त्रयोदशाब्दे च कृष्णांशे बलवत्तरे
भाद्रे शुक्ले त्रयोदश्यां चाह्लादः सानुजो ययौ
कृष्णांशो बिन्दुलारूढो वत्सजो हरिणीस्थितः
चत्वारो द्विदिनान्ते च गयाक्षेत्रं समाययुः 3.3.13.
शतं शतं गजांश्चैव भूषितांश्च रथास्तथा
धेनूर्हिरण्यरत्नानि वासांसि विविधानि च
लक्षावर्तिस्तु या वेश्या ययौ बदरिकाश्रमम्