तदा तु दुःखिता देवी दोलामारुह्य सत्वरा
गजराज नमस्तुभ्यं शक्रदत्त महाबल
इति श्रुत्वा दिव्यगजो देवमायाविशारदः
इत्युक्ते गजराजे तु कृष्णांशो बलवत्तरः
तमुत्थाप्य करस्पर्शैर्बलखानिसमन्वितः कराल मन्दं स्मितं रूपणाय तदा ददौ
मूर्च्छितं कालियं शत्रुं बद्ध्वा स निगडैर्दृढैः
सूर्यवर्मा तदा ज्ञात्वा बद्धं बंधुं च कालियम्
तमायान्तं समालोक्य ते वीरा युद्धदुर्मदाः
कुंठितेऽस्त्रे तदा तेषां विस्मितास्तेऽभवन्मुने
तस्यास्त्रैस्ते महावीरा व्रणार्तिभयपीडिताः 3.3.12.
एवं कति दिनान्येव बभूव रण उत्तमः कृष्णांशं शरणं जग्मुस्तेन वीरेण मोहिताः
कृष्णस्तु तं तथा दृष्ट्वा देवीं विश्वविमोहिनीम्
तदा तुष्टा जगद्धात्री दुर्गा दुर्गार्तिनाशिनी
निद्रया मोहितं दृष्ट्वा कृष्णांशस्तु महाबलः
तुंदिलश्च तथा ज्ञात्वा भातृशोकपरिप्लुतः रिपुसैन्यस्य मध्ये तु बहुशूरानताडयत्
माहिष्मत्याश्च ते शूरा रंकणेन समन्विताः
प्रद्रुतं स्वं बलं दृष्ट्वा तालनः परिघायुधः
वंकणं च तथा हत्वा खड्गेनैव च रंकणम्
कालिये च रिपौ बद्धे सुबद्धे सूर्यवर्मणि
सहस्रं म्लेच्छराजानो हतशेषा बलान्विताः 3.3.12.
प्रत्यहं तालनो वीरः सेनापतिरमर्षणः
भयभीता रिपोः शूरा हता भूपा हतौजसः
जम्बुकस्तु तथा श्रुत्वा दुःखितो गेहमाययौ
निशीथे समनुप्राप्ते तत्सुता विजयैषिणी
आश्वास्य पितरं तं च ययौ मायाविशारदा
भ्रातरो तत्र गत्वासौ यत्र सर्वानबोधयत्
निरस्त्रकवचान्बंधून्प्रतिदोलां समारुहत्
प्रभाते बोधिताः सर्वे स्नानध्यानादिकाः क्रियाः
कृत्वा सा राक्षसीं मायां हृत्वा तान्गेहमाययौ ।। 3.3.12.
विंध्योपरि महारण्ये नानासत्त्वनिषेविते इलविला योगसिद्धियुतः कामी राक्षसेभ्यो हि निर्भयः