रंकणो वंकणश्चोभौ चतुर्लक्षपदातिभिः दाक्षिणात्यग्रामपास्ते तौ पुरस्कृत्य संययुः
उभे सेने समासाद्य युद्धाय समुपस्थिते
त्रियामे रुधिरैस्तेषां नदी प्रावर्तत द्रुतम् बलखानिरमेयात्मा खङ्गपाणिर्नरो ययौ
भल्लहस्तस्तदा देवो मनोरथहये स्थितः
आह्लादश्च गदाहस्तः पोथयामास वाहिनीम् तालनो हस्तनिस्त्रिंशो माहिष्मत्यां हनन्ययौ
एवं महाभये जाते रणे तस्मिन्महाबले
प्रभग्नं स्वबलं दृष्ट्वा कालियो बलखानिकम्
हरिणी वडवा तस्य ज्ञात्वा स्वामिनमातुरम्
पतिते कालिये वीरे पंचशब्दो महागजः
मूर्च्छिते पंचशूरे तु रूपणो भयकातरः 3.3.12.
तदा तु दुःखिता देवी दोलामारुह्य सत्वरा
गजराज नमस्तुभ्यं शक्रदत्त महाबल
इति श्रुत्वा दिव्यगजो देवमायाविशारदः
इत्युक्ते गजराजे तु कृष्णांशो बलवत्तरः
तमुत्थाप्य करस्पर्शैर्बलखानिसमन्वितः कराल मन्दं स्मितं रूपणाय तदा ददौ
मूर्च्छितं कालियं शत्रुं बद्ध्वा स निगडैर्दृढैः
सूर्यवर्मा तदा ज्ञात्वा बद्धं बंधुं च कालियम्
तमायान्तं समालोक्य ते वीरा युद्धदुर्मदाः
कुंठितेऽस्त्रे तदा तेषां विस्मितास्तेऽभवन्मुने
तस्यास्त्रैस्ते महावीरा व्रणार्तिभयपीडिताः 3.3.12.
एवं कति दिनान्येव बभूव रण उत्तमः कृष्णांशं शरणं जग्मुस्तेन वीरेण मोहिताः
कृष्णस्तु तं तथा दृष्ट्वा देवीं विश्वविमोहिनीम्
तदा तुष्टा जगद्धात्री दुर्गा दुर्गार्तिनाशिनी
निद्रया मोहितं दृष्ट्वा कृष्णांशस्तु महाबलः
तुंदिलश्च तथा ज्ञात्वा भातृशोकपरिप्लुतः रिपुसैन्यस्य मध्ये तु बहुशूरानताडयत्
माहिष्मत्याश्च ते शूरा रंकणेन समन्विताः
प्रद्रुतं स्वं बलं दृष्ट्वा तालनः परिघायुधः
वंकणं च तथा हत्वा खड्गेनैव च रंकणम्
कालिये च रिपौ बद्धे सुबद्धे सूर्यवर्मणि
सहस्रं म्लेच्छराजानो हतशेषा बलान्विताः 3.3.12.