देवसिंहमतेनैव योगिनस्ते तदाभवन्
मड्डुधारी तदा देवो वीणाधारी च तालनः
मातुरग्रे स्थितास्ते वै ननृतुः प्रेमविह्वलाः
मोहितां मातरं दृष्ट्वा परं हर्षमुपाययुः
नत्वा तां प्रययुः सर्वे पुरीं माहिष्मतीं शुभाम्
दूत्या सार्द्धं रिपोर्गेहं ययुस्ते कार्यतत्पराः
विसंज्ञां महिषीं कृत्वा कृष्णांशः सर्वमोहनः
दृष्ट्वा सा सुंदरं रूपं श्यामांगं पुरुषोत्तमम्
दृष्ट्वा तथा गतां नारीं कृष्णांशः श्लक्ष्णया गिरा
साह भो देवकीपुत्र यदि पाणिं ग्रहीष्यसि 3.3.12.
तथेत्युक्त्वा स बलवाँस्तस्याः पाणिं गृहीतवान्
एतस्मिन्नन्तरे राज्ञी बाधिता प्राह योगिनम् तुभ्यं दास्यामि संतुष्टा नृत्यगानविमोहिता
इति श्रुत्वा वत्ससुतस्तां प्रशस्य गृहीतवान्
ननर्त तत्र कृष्णांशो बलखानिरगायत
मोहितोऽभून्नृपस्तत्र कालियः स्वजनैः सह
इति श्रुत्वा वचः शत्रोर्बलखानिर्महाबलः स्वविद्यां दर्शयेन्मह्यं तदा तृप्तिं व्रजाम्यहम्
इति श्रुत्वा तथा मत्वा लक्षावर्तिं नृपोत्तमः
सा वेश्या सुतमाह्लादं ज्ञात्वा योगित्वमागतम्
रुदितां तां समालोक्य रुदन्नाह्लाद एव सः
कृष्णांशस्तत्र तं हारं तस्याः कंठे प्रदत्तवान् 3.3.12.
अहं चोदयसिंहोऽयं पितुर्वैरार्थमागतः
इति श्रुत्वा वचस्तस्य कालियो बलवत्तरः
तेषां च बंधनायैव कपाटं समरुद्ध सः
स्वंस्वं खड्गं समाकृष्य क्षत्रियास्ते समाघ्नत
त्यक्त्वा तातं प्रदुद्राव ते तु गेहाद्बहिर्ययुः शिबिराणि कृतान्येव नर्मदाकूलमास्थितैः
कृत्वा तु नर्मदासेतुं नल्वमात्रं सुपुष्टिदम्
रुरोध नगरीं सर्वां बलखानिर्बलैर्युतः माहिष्मत्याश्च हर्म्याणि पातयामास भूतले
नराश्च स्वकुलैः सार्द्धं मुख्यद्रव्यसमन्विताः
कालियस्तु गजानीके पंचशब्दगजे स्थितः
तस्यानुजः सूर्यवर्मा त्रिलक्षैस्तुरगैर्युतः 3.3.12.