अद्यापि तौ स्थितौ वीरौ हा पुत्रेति प्रभाषिणौ तस्योदयो वृथा ज्ञेयो वृथाकीर्तिः प्रियंकरी
इति श्रुत्वा स कृष्णांशो भूपतीन्प्राह नम्रधीः
म्लेच्छैर्नराशनैः सार्द्धं तन्नृपेण रणोऽभवत् म्लेच्छैस्तैश्च हतौ तत्र श्रुतेयं विश्रुता कथा
मातुलेनाद्य कथितं नवीनं मरणं तयोः
इत्युक्त्वा तान्स कृष्णांशो मातरं प्राह सत्वरम्
श्रुत्वा वज्रसमं वाक्यं रुरोद जननी तदा
ज्ञात्वा पितृवधं श्रुत्वा जम्बुकं शिवकिंकरम्
जय जय जय जगदम्ब भवानि ह्यखिललोकसुरपितृमुनिखानि
इति ध्यात्वा स कृष्णांशः सुष्वाप निजस द्मनि मोहयित्वाशु तत्पार्श्वे प्रेषयामास सर्वगा
चतुर्लक्षबलैः सार्द्धं तालनः शीघ्रमागतः 3.3.12.
बलखानिस्तदा प्राप्तश्चैकलक्षबलान्वितः
सज्जीभूतान्समालोक्य तानुद्याने ससैन्यकान्
विह्वलं नृपमालोक्य कृष्णांशोऽऽश्वासयन्मुदा
लक्षसैन्यं तदीयं च गृहीत्वा चाधिपोऽभवत्
पताकाः पञ्चसाहस्राः साहस्रं काष्ठकारिणः
त्रिलक्षाश्च हयाः सर्वे उष्ट्रा दशसहस्रकाः
तालनश्च समायातः सर्वसेनाधिपोऽभवत्
बलखानिर्हयानां च सर्वेषामधिपोऽभवत् पत्तीनां चैव सर्वेषां कृष्णांशश्चाधिपोऽभवत्
नत्वा ते मलनां भूपो दत्त्वा दानान्यनेकशः
पक्षमात्रगतः कालो मार्गे तस्मिन्रणैषिणाम् सेनां निवासयामासुर्निर्भयास्ते महाबलाः ।। 3.3.12.
देवसिंहमतेनैव योगिनस्ते तदाभवन्
मड्डुधारी तदा देवो वीणाधारी च तालनः
मातुरग्रे स्थितास्ते वै ननृतुः प्रेमविह्वलाः
मोहितां मातरं दृष्ट्वा परं हर्षमुपाययुः
नत्वा तां प्रययुः सर्वे पुरीं माहिष्मतीं शुभाम्
दूत्या सार्द्धं रिपोर्गेहं ययुस्ते कार्यतत्पराः
विसंज्ञां महिषीं कृत्वा कृष्णांशः सर्वमोहनः
दृष्ट्वा सा सुंदरं रूपं श्यामांगं पुरुषोत्तमम्
दृष्ट्वा तथा गतां नारीं कृष्णांशः श्लक्ष्णया गिरा
साह भो देवकीपुत्र यदि पाणिं ग्रहीष्यसि 3.3.12.