तस्माच्च सुरथो जातः पितुस्तुल्यं कृतं पदम्
सार्वभौमस्तस्य सुतः पितुस्तुल्यं कृतं पदम् 3.1.3.
तस्मादर्णव एवासौ पितुस्तुल्यं कृतं पदम्
अयुतायुस्तस्य सुतो राज्यं दशसहस्रकम्
तस्मादृक्षस्सुतो जातः पितुस्तुल्यं कृतं पदम्
दिलीपस्तस्य तनयः पितुस्तुल्यं कृतं पदम्
शंतनुस्तस्य पुत्रश्च राज्यमेकसहस्रकम्
पांडुश्च तनयो यस्मिन्राज्यं पंचशतं कृतम्
सुयोधनेन षष्ट्यब्दं कृतं राज्यं ततः परम्
पूर्वं देवासुरे युद्धे ये दैत्याश्च सुरैर्हताः
लक्षमक्षौहिणी तेषां तद्भारेण वसुन्धरा
स शौरेर्वसुदेवस्य देवक्यां जन्मनाविशत् 3.1.3.
पंचत्रिंशदुत्तरं च शतं वर्षं च भूतले
चतुर्थचरणान्ते च हरेर्जन्म स्मृतं बुधैः
राज्यमेकसहस्रं च ततोऽभूज्जनमेजयः
पितुस्तुल्यं कृतं राज्यं यज्ञदत्तस्ततः सुतः
सहस्रमेकं राज्यं तदुष्ट्रपालस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं धृतिमांस्तनयस्ततः
पितुस्तुल्यं कृतं राज्यं सुनीथस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यं न चक्षुस्तनयस्ततः
पितुस्तुल्यं कृतं राज्यं तस्मात्पारिप्लवस्सुतः
पितुस्तुल्यं कृतं राज्यं मेधावी तत्सुतोऽभवत् 3.1.3.
पितुस्तुल्यं कृतं राज्यं मृदुस्तत्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यं तस्माज्जातो बृहद्रथः
पितुस्तुल्यं कृतं राज्यं शतानीकस्ततोऽभवत्
पितुस्तुल्यं कृतं राज्यं तस्माज्जातो ह्यहीनरः
पितुस्तुल्यं कृतं राज्यं क्षेमकस्तत्सुतोऽभवत्
म्लेच्छैश्च मरणं प्राप्तो यमलोकमतो गतः
म्लेच्छयज्ञः कृतस्तेन म्लेच्छा हननमागताः
द्वापरयुगभूपाख्यानवर्णनम् सर्वं कथय मे तात त्रिकालज्ञ महामुने