पूर्वार्द्धाद्भगवान्ब्रह्मा .सर्वदेवसमन्वितः 3.4.25.
तृतीयो यो महाकल्पः शिवकल्पः स वै स्मृतः
शतकोटिप्रविस्तारः शिवपौराणिकैः स्मृतः
गणेशस्तत्र भगवान्पुराणपुरुषासने
विष्णोर्नाभिसमुद्भूतः परमेष्ठी पितामहः
पंचमो यो महाकल्पो वायुकल्पः स वै स्मृतः
महेन्द्रादभवत्प्राप्तो महेंद्रादिंद्रियाणि च
शनिर्बुधो रविः शुक्रो विश्व कर्मा बृहस्पतिः
सृष्टिकर्ता स वै ब्रह्मा लिङ्गेन्द्रियसमुद्भवः । सृष्टिपाता स वै विष्णुरवतारिपदोद्भवः । । १०८ चतुर्विंशतितत्त्वेषु कल्पेकल्पे प्रभुर्गतः । सनत्कुमारो हंसश्च वाराहो नारदस्तथा । । १०९ नारायणौ च कपिलात्रेयौ यज्ञाश्वकण्टकौ । वृषभश्च पृथुर्मत्स्यः कूर्मो धन्वन्तरिस्तथा । । 3.4.25.११० मोहिनी च नृसिंहश्च वामनो भार्गवस्तथा । रामो व्यासो बलः कृष्णो बुद्धः कल्की स्वतत्त्वगः । । १११ गुह्यजन्मा महादेवः सृष्टिदैत्यविनाशकः । एवं जातास्त्रयो देवा महाकल्पे च पञ्चमे । । ११२ षष्ठो यस्तु महाकल्पो वह्निकल्पः स वै स्मृतः । स्कन्दस्तत्रैव भगवान्पुराणपुरुषासने । । ११३ पुरुषाव्ययतः स्कन्नः स्कन्दस्तस्मान्महार्चिमान् । सूर्यरूपा महार्चिर्या तस्यां जातो हरिः स्वयम् । । ११४ वह्निरूपा महार्चिर्या तस्यां जातः पितामहः । चन्द्ररूपा महार्चिर्या तस्यां जातः स वै हरः । । ११५ ऋषयो मुनयो वर्णा लोका जाताः पितामहात् । आदित्या विश्ववसवस्तुषिता भास्वरानिलाः । । ११६ महाराजिकसाध्याश्च देवा विष्णुसमुद्भवाः । यक्षराक्षसगन्धर्वाः पिशाचाः किन्नरादयः । । ११७ दैत्याश्च दानवा भूतास्तामसा रुद्रसम्भवाः । कल्पे कल्पे समुद्भूतमेवं ब्रह्माण्डगोचरे । । ११८ सप्तमो यो महाकल्पः स वै ब्रह्माण्डकल्पकः । पावकस्तत्र भगवान्पुराणपुरुषासने । । ११९ अचिन्त्यतेजसस्तस्मात्पुरुषाद्वह्निरुद्भवः । ततो जातो महाब्धिश्च तस्माज्जातं विराण्मयम् । । 3.4.25.१२० रोम्णि रोम्णि ततस्तस्य ब्रह्माण्डाः कोटिशोऽभवन् । ब्रह्माण्डादभवद्ब्रह्मा सर्वलोकपितामहः । । १२१ तस्माज्जातो विभुर्विष्णुस्तस्माज्जातो हरः स्वयम् । शतकोटिप्रविस्तारो ब्रह्माण्डाख्यपुराणके । । १२२ त्रिनेत्रं पञ्चवक्त्रं च दशबाहुर्भवस्य च । अष्टादशानां कल्पानां वायुर्वै वैदिकैः स्मृतः । । १२३ महाकल्पेऽभवन्सर्वे द्विसहस्राः क्षयं गताः । अष्टमो यो महाकल्पो लिङ्गकल्पः स वै स्मृतः । । १२४ तत्रैव भगवान्धर्मः पुराणपुरुषासने । अचिन्त्याव्यक्तरूपश्च जातो धर्मः सनातनः । । १२५ धर्मात्कामः समुद्भूतः कामाल्लिङ्गस्त्रिधाभवत् । पुंल्लिङ्गः क्लीबलिङ्गश्च स्त्रीलिङ्गश्च सुरोत्तम । । १२६ पुँल्लिङ्गादभवद्विष्णुः स्त्रीलिङ्गाच्च महेन्दिरा । क्लीबलिङ्गात्स वै शेषस्तस्योपरि स च स्थितः । । १२७ त्रिभ्यस्तमोमयेभ्यश्च जातमेकार्णवं जगत् । सुप्ते नारायणे देवे नाभेः पङ्कजमुत्तमम् । । १२८ जातं तस्मात्स वै ब्रह्मा तस्माज्जातो विराडयम् । शतकोटिप्रविस्तारैर्लिङ्गपौराणिकैः कथा । । १२९ गीता चैव विधेरग्रे तस्य सारोऽयमुत्तमः । नवमो यो महाकल्पो मत्स्यकल्पः स वै स्मृतः । । 3.4.25.१३० कुबेरस्तत्र भगवान्पुराणपुरुषासने । अव्ययाच्च समुद्भूतो धूलिवृन्दो महांस्तथा । । १३१ रजोभूताच्च तस्माच्च कुबेरस्य समुद्भवः । कुबेरादुद्भवन्मत्स्यो वेदमूर्तिश्च सद्गुणः । । १३२ मत्स्योदरात्समुद्भूतो विष्णुर्नारायणो हरिः । विष्णोर्नाभेः समुद्भूतो ब्रह्मा लोकपितामहः । । १३३ ब्रह्मणश्चोद्भवं दैवं दैवाद्देवा बभूविरे । चतुर्विंशतितत्त्वानि तैर्देवैर्जनितानि वै । । १३४ कल्पेकल्पे क्रमादेवं कल्पनामान्यकारयत् । मत्स्यकल्पे तु मत्स्यश्च महामत्स्यात्समुद्भवः । । १३५ तन्मत्स्याद्भगवान्विष्णुस्ततो ब्रह्मण उद्भवः । कूर्मकल्पे महामत्स्यात्कूर्मो जातः स कच्छपः । । १३६ कूर्माच्च भगवान्विष्णुस्ततो ब्रह्मा ततो विराट् । श्वेतवाराहकल्पे च वराहाद्विष्णुरुद्भवः । । १३७ विष्णोर्नाभेश्च स ब्रह्मा ततो जातो विराडयम् । एवं सर्वे च वै कल्पा ज्ञेयाः सर्वत्र वै बुधैः । । १३८ दशमो यो महाकल्पः कूर्मकल्पः स वै स्मृतः । अचेतास्तत्र भगवान्पुराणपुरुषासने । । १३९ प्रकृतेश्च परो यो वै तुरीयोऽव्यय एव च । शून्यभूतात्ततो जातः प्रचेता भगवान्स्वयम् । । 3.4.25.१४० तस्माज्जातो महानब्धिस्तत्र सुष्वाप स प्रभुः । नारायण इति ख्यातः स वै जलपतिः स्वयम् । । १४१ तदर्द्धाच्च महाकूर्मस्ततः शेषो महानभूत् । त्रिधाऽभवत्स वै शेषो भूमा शेषश्च भौमनी । । १४२ भूमा स वै विराड् ज्ञेयः शेषोपरि स चास्थितः । भौमनी च महालक्ष्मीः सा भूम्नो हृदि संस्थिता । । १४३ भूम्नो जातः स वै ब्रह्मा सृष्टिस्थितिविनाशकः । त्रिधामूर्तिः स वै ब्रह्मा कल्पेकल्पे क्रमादयम् ।। १४४ पटं सुषुप्तभूतं यत्पुराणपुरुषासनम् । यत्र गत्वेन्द्रियाण्येव तृप्तिं प्राप्य क्षयन्ति वै ।। १४५ अहङ्कारस्तदागत्य चैतन्यं मनसि स्थितम् । वञ्चयित्वा पुनर्लोकं करोति स्म स्वलीलया ।। १४६ तुरीयशक्तिर्या ज्ञेया महाकाली सनातनी । महाकल्पश्च तैः सर्वैस्तदङ्गं श्रुतिभिः स्मृतम् ।। १४७ नमस्तस्यै महाकाल्यै मम मात्रे नमो नमः । यतः पुराणपुरुषा भवन्ति च लियन्ति च ।। १४८ दशैव च महाकल्पा व्यतीता इह भोः सुराः । साम्प्रतं वर्तते यो वै महाकल्पो भविष्यकः ।। १४९ तदुत्पत्तिं शृणुध्वं भो देवाः सर्पिगणा मम । अचिन्त्यमक्षरं यत्तु तुरीयं च सदा स्थितम् ।। 3.4.25.१५० यद्गत्वा न निवर्तन्ते नरास्तत्रैव तत्पदम् । अनेकसृष्टिरचनाः सन्ति तस्यैव लीलया ।। १५१ तस्यान्तं न विदुर्देवाः कथं जानन्ति वै नराः । भूतो भूतो महाकल्पो दृष्टो वैदेस्तदीरितः ।। १५२ भाव्या ये तु महाकल्पा न वै जानन्ति ते सदा । त्रयस्त्रिंशन्महाकल्पाः कैश्चिद्वेदैरुदीरिताः ।। १५३ अष्टादश महाकल्पाः पृथङ् नाम्नोपवर्णिताः । एकादश महाकल्पाः कैश्चित्प्रोक्ताः पुरातनैः ।। १५४ अतोऽहं निश्चयेनाद्य भाव्यकल्पेषु भोः सुराः । वेदानां वचनं सत्यं नान्यथा च भवेत्क्वचित् ।। १५५ तदव्ययात्समुद्भूतो राधाकृष्णः सनातनः । एकीभूतं द्वयोरङ्गं राधाकृष्णो बुधैः स्मृतः ।। १५६ सहस्रयुगपर्यन्तं यत्तेपे परमं तपः । तदा स च द्विधा जातो राधाकृष्णः पृथक्पृथक् ।। १५७ सहस्रयुगपर्यन्तं तेपतुस्तौ परं तपः । तयोरङ्गात्समुद्भूता ज्योत्स्ना तमनाशिनी । । १५८ तज्योत्स्नाभिः समुद्भूतं दिव्यं वृन्दावनं शुभम् । एकविंशत्प्रकृतयो योजने योजने स्मृताः । । १५९ दिव्यं वृन्दावनं जातं चतुराशीतिसम्मिते । क्रोशायामं महारम्यं तल्लिङ्गं शृणु मे प्रभो । । 3.4.25.१६० इन्द्रियप्रकृतीनां च दशानां ग्रामतद्दश