पुत्रभेदेन तां नारीं मत्वा मायां रुषान्वितः
तदा शनिश्च सावर्णिर्विवस्वतं रुषान्वितम्
कियतो चैव कालेन भग्नभूतौ विवस्वता
त्रिवर्षान्ते च सा देवी महाकाली समागता
पुनस्तौ च समागम्य युयुधाते विवस्वता
तत्र स्थिता प्रिया संज्ञा वडवारूपधरिणी
गत्वा ददर्श भगवान्सज्ञां संबोधकारिणीम्
पंचवर्षान्तरे संज्ञा गर्भं तस्माद्दधौ स्वयम्
पितुर्दुःखं समालोक्य जग्मतू रविमण्डलम् 3.4.18.
बद्ध्वा तौ स्वपितुः पार्श्वम संप्राप्तौ वडवासुतौ
संपीड्य ताडयामास लोहदंडैर्भयानकैः
आश्विनेयौ समालोक्य वचनं प्राह तौ मुदा एकनाम्ना युवां प्रीतौ नासत्यौ च भविष्यथः
सोमशक्तिरिडादेवी ज्येष्ठपत्नी भविष्यति
इडापतिस्स वै नाम द्वितीयः पिंगलापतिः तस्य शान्तिकरो ज्येष्ठो भविष्यति महीतले
द्वितीयश्च नृणां राशेः सावर्णिर्भ्रमकारकः
जन्मराशिस्थिता देवी तपती ता पकारिणी
इति श्रुत्वा वचस्तस्य सुरवैद्यौ बभूवतुः तेषां तु परिहारार्थौ दस्रौ चाश्विनिसंभवौ
सूत उवाच स्वांशान्महीतले जातौ शूद्रयोन्यां रवेस्तुतौ
चाण्डालस्य गृहे जातश्छागहंतुरिडापतिः 3.4.18.
शालिग्रामशिलातुल्यं छागमांसं विचिक्रिये
स तु सत्यनिधिः पूर्वं ब्रह्मणस्तप आस्थितः राजगेहे करस्तस्मात्सधनस्य लयं गतः
चर्मकारगृहे जातो द्वितीयः पिंगलापतिः
पुरीं काशीं समागम्य कबीरं रामतत्परम्
तयोर्विवादो सभवदहोरात्रं मतान्तरे रामानन्दमुपागम्य तस्य शिष्यत्वमागतः
इति ते कथितं विप्र सुरांशाश्च यथाभवन्
कलियुगीयेतिहाससमुच्चयवर्णनम् व्यास उवाच चतुर्थचरणे जातैर्मनुजैरेकविंशतिः । अजीर्णभूता नरका यास्यन्ति च यमालयम् । । १ नमस्ते धर्मराजाय नश्च तृप्तिकराय च । वचनं शृणु सर्वज्ञ नश्च जातमजीर्णकम् । । २ यथा भजाम प्रकृतिं तथा कुरु सुरोत्तम । इति श्रुत्वा धर्मराजश्चित्रगुप्तेन संयुतः । । ३ ब्रह्माणं च गमिष्यन्ति सन्ध्यायां च कलौ युगे । चतुरश्च यमान्दृष्ट्वा परमेष्ठी पितामहः । । ४ तदीरितं स्वयं ज्ञात्वा क्षीराब्धिं प्रति यास्यति । पूजयित्या जगन्नाथं देवदेवं वृषाकपिम् । । ५ साङ्ख्यशास्त्रमयैः स्तोत्रैः संस्तोष्यति परम् प्रभुम् । । ६ जय जय जय निर्गुण गुणधारिन्रगजगजीवतत्त्वशुभकारिन् । सारभूतसद्गुणमय तत्त्वैर्देवान्रचयति पाति गुणसत्त्वैः । । तस्मै नमो नमो गुणराशे देववृन्दहृदि कृष्णविकाशे । । ७ रजोभूततत्त्वेभ्य उताशु विरचति भुवि च नरान्स्वयमाशु । पाति हन्ति यो देव उदारस्तस्य शिरसि संस्थितजगभारः । । पाहि नाथ नो दैत्यविनाशिन्कालजनितलीलागुणभासिन् । । ८ तेषामिति वचनं प्रभुः श्रुत्वा ह्यवनिमिवाशु । यथा जनिष्यति स प्रभुस्तच्छृणु वै मन आशु । । ९ ? नम्रीभूतान्तुरान्विष्णुर्नमोवाक्येन तान्प्रति । वदिष्यति वचो रम्यं लोकमङ्गलहेतवे । । 3.4.25.१० भोः सुराः सम्भलग्रामे कश्यपोऽयं जनिष्यति । नाम्ना विष्णुयशाः ख्यातो विष्णुकीर्तिस्तु तत्प्रिया । । ११ कृष्णलीलामयं ग्रन्थं नरांस्ताञ्छ्रावयिष्यति । तदा ते नन्दिनो भूत्वा चैकीभूय समन्ततः । । १२ तं द्विजं विष्णुयशसं गृहीत्वा निगडैर्दृढैः । बद्ध्वा सर्वे सपत्नीकं कारागारे दृढायसे । । १३ करिष्यन्ति महाधूर्ता नारका इव दारुणाः । विष्णुकीर्त्या स भगवान्पूर्णो नारायणो हरिः । । १४ जनिष्यति महाविष्णुः सर्वलोकशिवङ्करः । निशीथे तमसोद्भूते मार्गकृष्णाष्टमीदिने । । १५ ब्रह्माण्डं मङ्गलं कुर्वन्सुराः प्रादुर्भविष्यति । ब्रह्म विष्णुर्हरश्चैव गणेशो वासवो गुरुः । । १६ वह्निः पितृपतिः पक्षो वरुणः सविभीषणः । चित्रो वायु्र्ध्रुवो विश्वे रविः सोमः कुजो बुधः । । १७ गुरुः शुक्रः शनिः राहुः केतुस्तत्र गमिष्यति । पद्यैकैकेन ते देवाः स्तोष्यन्ति परमेश्वरम् । । १८ महत्तमा मूर्तिमयी तवाजा तदास्य पूर्वाज्जनितोहऽमादौ । मया ततं विश्वमिदं सदैव यतो नमस्तत्पुरुषोत्तमाय । । १९ अजस्य याम्याज्जनितोऽहमादौ विष्णुर्महाकल्पकरोऽधिकारी । स्वकीयनाम्ना तु मया ततं तद्विश्वे सदैवं च नमो नमस्ते । । 3.4.25.२० अव्यक्तपाश्चात्यमुखात्सुजन्मा शिवोऽहमादौ सुरतत्त्वकारी । मया महाकल्पकरस्तृतीया त्वदाज्ञया देव नमो नमस्ते । । २१ प्रधानवक्त्रोत्तरतोऽहमादौ जातो गणेशः किल कल्पकर्ता । मया ततं विश्वमिदं सदैव तस्मै नमः कारुणिकोत्तमाय । । २२ अजार्द्धवक्त्राज्जनितोऽहमादौ मरुन्महाकल्पकरो महेन्द्रः । मया ततं विश्वमिदं स्वकल्पे यदाज्ञया देव नमो नमस्ते । । २३ प्रथानभालाक्षिसमुद्भवोऽहं वह्नेर्महाकल्पकरो गुहाख्यः । विनिर्मितं विश्वमिदं मया तद्यदाज्ञया नाथ नमो नमस्ते । । २४ अजामुखात्पूर्वगताच्च जातश्चादौ महाकल्पकरोऽहमग्निः । ब्रह्माण्डमेतच्च मया ततं वै ब्रह्माण्डकल्पाय नमो नमस्ते । । २५ अजाभुजाद्दक्षिणतोऽहमादौ जातो महाकल्पककरः सधर्मः । मया सदेवै रचितं समग्रं लिङ्गाख्यकल्पाय नमो नमस्ते । । २६ अजाभुजात्पश्चिमतोऽहमादौ जातो महाकल्पकरः स यज्ञः । मया ततं विश्वमिदं समग्रं मत्स्याख्यकल्पाय नमो नमस्ते । । २७ प्रधानबाहूत्तरतोऽहमादौ जातो महाकल्पकरः प्रचेताः । मया ततं नाथ तवाज्ञयेदं कर्माख्यकल्पाय नमो नमस्ते । । २८ ब्रह्माण्डतमसो जातस्त्वद्दासोऽहं विभीषणः । मया ततं त्रिलोकं च नमस्ते मनुरूपिणे । । २९ ब्रह्माण्डसद्गुणाज्जातश्चित्तोऽहं मनुकारकः । मया ततं च त्रैलोक्यं स्वायम्भुव नमोऽस्तु ते । । 3.4.25.३० ब्रह्माण्डरजसो जातो वायुर्मन्वन्तरं ततम् । मया स्वारोचिषं स्वामिन्नमस्ते मनुरूपिणे । । ३१ ब्रह्माण्डमनसो जातो ध्रुवोऽहं मनुकारकः । मयोत्तमं च रचितं नमस्तेऽस्तु तवाज्ञया । । ३२ ब्रह्माण्डश्रवणाज्जातो विश्वकर्माहमीश्वरः । मया ततं रैवतं च नमो देव तवाज्ञया । । ३३ ब्रह्माण्डदेहतो जातस्सूर्योऽहं चाक्षुषप्रदः । तवाज्ञया ततं विश्वं मनुरूपाय ते नमः । । ३४ ब्रह्माण्डनेत्रतो जातः सोमोऽहं तु मया ततम् । वैवस्वतान्तरं रम्यं नमस्ते मनुरूपिणे । । ३५ ब्रह्माण्डरसनाज्जातो मोहोऽहं मनुकारकः । नमस्ते मनुरूपाय मया सावर्णिकं ततम् । । ३६ ब्रह्माण्डघ्राणतो जातो बुधोऽहं नाथ किङ्करः । निर्मितं ब्रह्मसावर्णं मया तात नमो नमः । । ३७ ब्रह्माण्डवक्त्रतो जातो जीवोऽहं मनुकारकः । मया वै दक्षसावर्णं ततं तत्ते नमो नमः । । ३८ ब्रह्माण्डकरतो जातः शुक्रोहं तव किङ्करः । निर्मितं रुद्रसावर्णं मया तुभ्यं नमो नमः । । ३९ ब्रह्माण्डपदतो जातोमन्दोऽहं नाथ तेऽनुगः । ततं वै धर्मसावर्णं प्रभातेस्मै नमो नमः । । 3.4.25.४० ब्रह्माण्डलिङ्गतो जातो राहुश्चाहं तव प्रियः । मया भौमं कृतं नाथ नमस्ते मनुरूपिणे । । ४१ ब्रह्माण्डगुह्यतो जातः केतुश्चाहं तवानुगः । भौतं मन्वतरं सृष्टं तस्मै देवाय ते नमः । । ४२ व्यास उवाच इति तेषां स्तवान्स्वामी श्रुत्वा देवान्वदिष्यति । वरं ब्रूहीति वचनं ततं प्रति मनुः क्रमात् । ।४ ३ इति कृत्वा तु ते देवा बालरूपं हरिं स्वयम् । नमस्कृत्य वदिष्यन्ति वाञ्छितं लोकहेतवे । । केयं भवान्ब्रूहि लोकानां कल्पे कल्पे तमुद्भवम् । तथा मन्वन्तरे चैव श्रोतुमिच्छामहे वयम् । ।४५ कल्क्युवाच अष्टादश महाकल्पाः प्रकृतेश्च तनौ स्थिताः । आद्यो ब्रह्ममहाकल्पस्तत्र ब्रह्मा परः पुमान् । ।४६ तत्पूर्वार्द्धात्समुद्भूतास्त्रयस्त्रिंशच्च देवताः । परार्द्धाद्भगवान्ब्रह्मा योगिध्येयो निरञ्जनः । ।४७ तस्मिन्कल्पे तु या लीला ब्रह्मपौराणिकैः स्मृता । शतकोटिप्रविस्तारो ब्रह्मपौराणिकस्य वै । ।४८ पुराणपुरुषस्यान्ते महाकल्पः स्मृतो बुधैः । ब्रह्माण्डप्रलये कल्पो युगदैवसहस्रकः । ।४ ९ कल्पाश्चाष्टादश ख्यातास्तेषां नामानि मे शृणु । कूर्मकल्पो मत्स्य कल्पः श्वेतवाराहकल्पकः । । 3.4.25.५० नृसिंहकल्पश्च तथा तथा वामनकल्पकः । स्कन्दकल्पो रामकल्पः कल्पो भागवतस्तथा । । ५१ तथा मार्कण्डकल्पश्च तथा भविष्यकल्पकः । लिङ्गकल्पस्तथा ज्ञेयस्तथा ब्रह्माण्डकल्पकः । । ५२ अग्निकल्पो वायुकल्पः पद्मकल्पस्तथैव च । शिवकल्पो विष्णुकल्पो ब्रह्मकल्पस्तथा क्रमात् । । ५३ द्विसहस्रमितावर्तैरेषां कल्पो महान्स्मृतः । सहस्रयुगपर्यन्तं ब्रह्माण्डायुः प्रकीर्तितम् । । ५४ यन्नाम्ना च स्मृतः कल्पस्तस्माज्जातो विराडयम्
स्वायंभुवांतरे यद्वै जांतंजातं चतुर्युगम्
लक्षाब्दं वै सत्ययुगे त्रेतायामयुताब्दकम्
स्वारोचिषेऽन्तरे ऐव जातंजातं चतुर्युगम्
त्रेतायां च तदर्द्धाब्दं द्वापरे तु तदर्द्धकम्