दृष्ट्वा पराजितं सैन्यं धुंधुकारो महाबलः
आह्लादे मूर्च्छिते तत्र देवसिंहो महाबलः
स तीक्ष्णव्रणमासाद्य गजस्थः संमुमोह वै
शस्त्राण्यस्त्राणि तेषां तु छित्त्वा खङ्गेन वत्सजः
हते शत्रुसमूहे तु तच्छेषास्तु प्रदुद्रुवुः
आजगाम गजारूढः शिवदत्तवरो बली
आह्लादं च तथा वीरं देवं परिमलात्मजम्
पूजयित्वा शतघ्नीश्च महावधमकारयत्
एतस्मिन्नंतरे वीरः सुखखानिर्महाबलः । कपोतं हयमारुह्य नभोमार्गेण चागमत् ।। 3.3.11.
मूर्च्छयित्वा महीराजं स्वबंधूंश्च सवाहनान्
तदोत्थाय महीराजो महादेवेन बोधितः
सुखखान्यादिकाञ्छूरान्संबध्य निगडैर्दृढैः
हाहाभूतं स्वसैन्यं च दृष्ट्वा स उदयो हरिः
महीराजगजं प्राप्य बद्ध्वा तं निगडैर्बलो
तदा तु पृथिवीराजो लज्जितस्तेन निर्जितः
देवसिंहाज्ञया शूरो बलखानिर्हि वत्सजः
शिरीषाख्यं पुरं नाम तेन वीरेण वै कृतम्
तत्रैव न्यवसद्वीरो वत्सजः स्वकुलैः सह
श्रुत्वा परिमलो राजा तत्रागत्य मुदान्वितः 3.3.11.
ब्रह्मानंदेन सहितः स्वगेहं पुनराययौ
इषशुक्लदशम्यां च राज्ञां जातः समागमः
कान्यकुब्जे महारम्ये नानाभूपाः समाययुः
कृष्णांशदर्शने वांछा तस्य चासीत्तदा मुने
जितो येन महीराजः सर्वलोकप्रपूजितः भ्रातृजं प्रणतं प्राह शृणु शुक्लयशस्कर
राजराजपदं ते हि कथं संहर्तुमिच्छसि
राजानस्ते च सहिताः स्वसैन्यैः परिवारिताः
शिरीषाख्यपुरस्थं च ज्ञात्वा कृष्णांशमुत्तमम्
ददृशुस्तं महात्मानं पुंडरीकनिभाननम्
तदा महीपतिः क्रुद्धो वचनं प्राह भूपतीन् पितरौ तस्य बलिनौ माहिष्मत्यां मृतिं गतौ
जम्बुको नाम भूपालो नार्मदीयैः समन्वितः शिलापत्रे समारोप्य तयोर्गात्रमचूर्णयत् 3.3.12.