चतुर्लक्षबलैः सार्द्धं ते युद्धाय समाययुः
ऊषुस्तत्र रणे मत्ताः सर्वशत्रुभयंकराः
कृत्वा कोलाहलं शब्दं युद्धाय समुपाययुः
शतघ्नीभिस्त्रिसाहस्रैः पञ्चसाहस्रका ययुः
सैन्यं षष्टिसहस्रं च स्वगर्लोकमुपाययौ
दुद्रुवुर्भीरुकाः शूरा वलखानेर्दिशो दश
हया हयैस्तथा उष्ट्रा उष्ट्रपैश्च समाहनन्
हाहाभूतान्स्वकीयांश्च सैन्यान्दृष्ट्वा महाबलान्
ब्रह्मानंदः शरैः शत्रूननयद्यमसादनम् 3.3.11.
बलखानिः स्वखड्गेन कृष्णांशस्तु तथैव च
दृष्ट्वा पराजितं सैन्यं धुंधुकारो महाबलः
आह्लादे मूर्च्छिते तत्र देवसिंहो महाबलः
स तीक्ष्णव्रणमासाद्य गजस्थः संमुमोह वै
शस्त्राण्यस्त्राणि तेषां तु छित्त्वा खङ्गेन वत्सजः
हते शत्रुसमूहे तु तच्छेषास्तु प्रदुद्रुवुः
आजगाम गजारूढः शिवदत्तवरो बली
आह्लादं च तथा वीरं देवं परिमलात्मजम्
पूजयित्वा शतघ्नीश्च महावधमकारयत्
एतस्मिन्नंतरे वीरः सुखखानिर्महाबलः । कपोतं हयमारुह्य नभोमार्गेण चागमत् ।। 3.3.11.
मूर्च्छयित्वा महीराजं स्वबंधूंश्च सवाहनान्
तदोत्थाय महीराजो महादेवेन बोधितः
सुखखान्यादिकाञ्छूरान्संबध्य निगडैर्दृढैः
हाहाभूतं स्वसैन्यं च दृष्ट्वा स उदयो हरिः
महीराजगजं प्राप्य बद्ध्वा तं निगडैर्बलो
तदा तु पृथिवीराजो लज्जितस्तेन निर्जितः
देवसिंहाज्ञया शूरो बलखानिर्हि वत्सजः
शिरीषाख्यं पुरं नाम तेन वीरेण वै कृतम्
तत्रैव न्यवसद्वीरो वत्सजः स्वकुलैः सह
श्रुत्वा परिमलो राजा तत्रागत्य मुदान्वितः 3.3.11.
ब्रह्मानंदेन सहितः स्वगेहं पुनराययौ