अकाले तत्र मरणमकाले गृहिणीमृतिः
एकैकस्यायुतं यत्र कुर्यात्तत्रैव होमयेत् 2.3.20.
अधिप्रत्यधिसहितं गृहपक्षेऽपि सत्तमाः
एकैकस्याहुतं विप्रा अष्टावष्टौ हुतं च वा
मानांतं च ददेत्पूर्णां दत्त्वा पूर्णां न होमयेत्
अमानकरणे दोषस्तस्मान्मानं न हापयेत्
अनिष्टाय ततो दद्याच्चरुहोमं विभागशः
त्र्यंबकादिषु मंत्रेषु होमत्रयमुदाहृतम्
आदित्यायाष्टावष्टावधिककल्पयेत्सुधीः
अनिष्टाय युगांगं तु ग्रहेभ्यो ह्यंगनाय च
द्वौ तु दद्यात्त्र्यंबकाय तथा धनंजयाय च
सहस्रे चैव विंशांगे अनिष्टाय दशांशकम् 2.3.20.
तत्रानिष्टे पंचशतं तस्यार्धं ग्रहवाग्यतः ।। एकत्रिंशद्भवेन्मानम् ( ३१) अन्येषां तु चतुर्दश (१४)
ग्रहाधिकं होमयुगं तत्र भागे प्रकल्पयेत्
ग्रहेभ्यश्चैव पंचांगं तत्र वांगं परानपि
अधिकं च भवेत्षष्टिर्दशमे भागशेषतः
चतुःशतं ग्रहाणां च तथा सप्तशताधिकम्
तिथ्यंगभागः शेषेण ग्रहे सप्तशताधिकम्
ग्रहांगे यः स्थितो भागो युगलं भागशेषतः
शांतिके पौष्टिके काम्ये यदीच्छेत्सुखमात्मनः
त्र्यहसाध्ये विधानं यत्पुरैवोदीरितं द्विजाः
पूर्वस्मिन्दिवसेऽनिष्टे सहस्रं त्रिशतोत्तरम् ( १३००) ।। इतरेषां ग्रहाणां च प्रत्येकं तु शतं शतम्( १००) ।। 2.3.20.
अधिप्रत्यधिदेवानां पंचाशद्धोम उच्यते ।। प्रथमेह्नि प्रदद्याच्च मिलित्वा त्रिसहस्रकम्( ३०००)
द्वितीयदिवसेऽनिष्टे द्विसहस्रमुदाहृतम् ( २०००) ।। प्रति ग्रहेभ्यस्त्रिशतं दद्यादष्ट शताधिकम्( १०८)
उपग्रहेभ्यो दद्याच्च षोडशभ्यो यथाक्रमम्
एवं द्वितीयदिवसे मिलित्वा षट्सहस्रकम् ( ६०००)
तत्प्रत्येकं ग्रहाणां च द्वाचत्वारिंशदुच्यते
तृतीयदिवसे दद्यान्मिलित्वैकसहस्रकम् ( १०००)
धनंजयाय होमैकमेकं चायुतमुच्यते
ग्रहाणां त्रिसहस्रं तु पंचानां च सहस्रकम्