लोहितस्याद्भुतं विद्यात्सहस्रं च विशोधनम्
द्रोणकाको बकश्चैव उलूकद्वयमेव च 2.3.20.
यस्य देवगृहं पश्येत्तस्य तस्यायुतं हुनेत् संपत्तिसूचकं गेहे मरणं दुःखदर्शनम्
क्रंदने हतराज्येन गजाश्ववाहने क्वचित्
प्रमादात्कंपने हानिः स्वेदे जाते विपद्भवेत्
गोच्छागौ वाथ गोमायुर्गृहोपरि प्रनृत्यति
श्वजंबुकावथ व्याघ्रो यथाशक्ति च धावति
राहोरद्भुतमुदिश्य सहस्रं जुहुयाच्चरुम् यद्गृहेषु हुतं याति देशविप्लवमादिशेत्
देशे वा नगरे ग्रामे आरण्यपशुबन्धनम् तद्गृहे मरणं चैव देश विप्लवमादिशेत्
दिवाद्भुतेऽयुतं रात्रौ द्विगुणं च भवेद्ध्रुवम्
अकाले तत्र मरणमकाले गृहिणीमृतिः
एकैकस्यायुतं यत्र कुर्यात्तत्रैव होमयेत् 2.3.20.
अधिप्रत्यधिसहितं गृहपक्षेऽपि सत्तमाः
एकैकस्याहुतं विप्रा अष्टावष्टौ हुतं च वा
मानांतं च ददेत्पूर्णां दत्त्वा पूर्णां न होमयेत्
अमानकरणे दोषस्तस्मान्मानं न हापयेत्
अनिष्टाय ततो दद्याच्चरुहोमं विभागशः
त्र्यंबकादिषु मंत्रेषु होमत्रयमुदाहृतम्
आदित्यायाष्टावष्टावधिककल्पयेत्सुधीः
अनिष्टाय युगांगं तु ग्रहेभ्यो ह्यंगनाय च
द्वौ तु दद्यात्त्र्यंबकाय तथा धनंजयाय च
सहस्रे चैव विंशांगे अनिष्टाय दशांशकम् 2.3.20.
तत्रानिष्टे पंचशतं तस्यार्धं ग्रहवाग्यतः ।। एकत्रिंशद्भवेन्मानम् ( ३१) अन्येषां तु चतुर्दश (१४)
ग्रहाधिकं होमयुगं तत्र भागे प्रकल्पयेत्
ग्रहेभ्यश्चैव पंचांगं तत्र वांगं परानपि
अधिकं च भवेत्षष्टिर्दशमे भागशेषतः
चतुःशतं ग्रहाणां च तथा सप्तशताधिकम्
तिथ्यंगभागः शेषेण ग्रहे सप्तशताधिकम्
ग्रहांगे यः स्थितो भागो युगलं भागशेषतः
शांतिके पौष्टिके काम्ये यदीच्छेत्सुखमात्मनः