अनिमित्तानि सर्वाणि दूरमागत्य निर्भरम्
नराणामासनं चैव गवां वा मानुषीगिरा
अयुतं जुहुयात्तत्र राहुमुद्दिश्य यत्नतः 2.3.20.
दधिमधुघृताक्तं च कुर्याद्दूर्वाक्षतं तथा
चरुं च श्रपयेत्तत्र राहुमुदिश्य संश्रयात्
अतसी तिलशंखौ वा वासोयुगमथापि वा
दुरितस्य विनाशाय तस्य संपद्यते शुभम्
दृश्यते चाद्भुतं तेषु विशिष्टैर्दोषदर्शिभिः
मैथुनानि च सर्वेषां यस्य वासे भवेद्यदि
धूमकेतुर्यदा व्योम्नि ज्वलत्पावक सन्निभः सबंधुरस्यते राजा परचक्रैः स पीडितः
दुर्भिक्षं मरणं चैव चिरं राष्ट्रे भविष्यति
गावश्च तस्य नश्यंति दारापत्यधनानि च 2.3.20.
अब्दांतरे भवेन्मृत्युर्विरजा हि भविष्यति
सप्ताश्वरथसंयुक्तं हेमच्छत्रविभूषितम्
ऐंद्रेणैव तु मन्त्रेण होमः कार्यो द्विजातिभिः
गृहमध्ये प्रजायेत केतोरद्भुतदर्शनम्
गृहे तस्य महोत्पातः केतोरद्भुतदर्शनम्
दधिमधुघृताक्तं च जुहुयादयुतं कुशम्
नीलां धेनुं सवत्सां च बहुक्षीरप्रदां तथा
दक्षिणां च प्रवक्ष्यामि यस्य नास्ति प्रतिक्रिया
दक्षिणस्यां दिशि च्छायां यः पश्येदात्मनः स्वयम्
एवमेवैव यच्छिन्नं शिनष्टि च ततो हितम् 2.3.20.
उच्चावचान्प्रवक्ष्यामि यथा शास्त्रेण चोदितम् मैथुनं दृश्यते यत्र तच्च राहोर्महाद्भुतम्
शनिमुद्दिश्य जुहुयादयुतं शनिवासरे
कृत्वा तत्रैव पश्येत शनेरद्भुतदर्शनम् ।। अष्टाविंशं चरुं कृत्वा ततः शांतिर्भवेद्ध्रुवम्
भुजपदोस्तथा चक्षुःस्पंदने मरणं दिशेत्
कृष्णपक्षे भवेद्वामे विपरीतेऽद्भुतं दिशेत्
शतार्द्धं रविमुद्दिश्य शान्त्यर्थे होममाचरेत्
पुस्तके यज्ञसूत्रं च असत्पात्रे चरौ तु वा
हयमारं त्रिमध्वक्तं जुहुयादिष्टसिद्धये