निधिमंत्रं प्रवक्ष्यामि येन संपद्यते शुभम्
शन्नो देवीति मंत्रेण शुभार्थं शनिवासरे
गां च नीलां ततो दद्याज्जीवद्वत्सां पयस्विनीम् 2.3.20.
दत्त्वा तु श्रद्धया सम्यग्दक्षिणां शिरसि स्थिताम्
यदा द्वारे गोधिका च शंखिनी प्रविशेद्गृहम् अयुतं जुहुयात्सम्यक्ततः संपद्यते शुभम्
विना गर्जितमेघेन शिलावृष्टिः प्रजायते
तत्र संदृश्यते चाभ्रं वृक्षा वातविवर्जिताः
दिवा शिवा पुरा रौति उलूको वा निशाचरः
अधर्मप्रबला देशा राजा धर्मपराङ्मुखः
गृहे गृही विनश्येच्च सपुत्रपशुबांधवः
राज्यनाशो भवेद्राज्ञो मरणं वाहनस्य च
राहुणा ग्रस्तसूर्योऽपि निशि चाथ यदा दिवा
सहामात्या विनश्यंति स्वर्गे ये च सुदुर्जयाः 2.3.20.
छायाध्वजश्च गगने दृश्यते चेत्कदाचन
ज्वलितो दृश्यते यत्र पावकश्च सकृज्जले
द्वारोपांते तथा स्तंभे आग्निर्वा धूम एव वा
गगनेऽशनिघातश्च शक्तिहस्तेन वा पुनः
शिखावलयमध्ये तु सधूमः पावकोद्गमः
शवस्य नीयमानस्य उत्थानं वा प्रमादतः
निर्घातश्चापि भूकंपो निवातोल्काप्रदर्शनम्
अनिमित्तानि सर्वाणि दूरमागत्य निर्भरम्
नराणामासनं चैव गवां वा मानुषीगिरा
अयुतं जुहुयात्तत्र राहुमुद्दिश्य यत्नतः 2.3.20.
दधिमधुघृताक्तं च कुर्याद्दूर्वाक्षतं तथा
चरुं च श्रपयेत्तत्र राहुमुदिश्य संश्रयात्
अतसी तिलशंखौ वा वासोयुगमथापि वा
दुरितस्य विनाशाय तस्य संपद्यते शुभम्
दृश्यते चाद्भुतं तेषु विशिष्टैर्दोषदर्शिभिः
मैथुनानि च सर्वेषां यस्य वासे भवेद्यदि
धूमकेतुर्यदा व्योम्नि ज्वलत्पावक सन्निभः सबंधुरस्यते राजा परचक्रैः स पीडितः