भुञ्जीकृतानि धान्यानि व्रीहयो यवतंडुलाः
विकिरंति नखैर्भूमिं प्ररोहंति ग्रहं तथा
षण्मासाभ्यन्तरे यत्र श्मशानं यास्यति ध्रुवम् 2.3.20.
विप्रलापो मित्र नाश इष्टेष्वनिष्टदर्शनम्
क्रियावंतं यदा कुर्वन्कुर्वीत गृध्रबिल्वके
अमात्यवर्गाश्च पुरे राज्ञां राज्यपराङ्मुखाः
वारिमंडे च कूपे च वाप्यां च मधुकांजिके
अकस्मात्तत्र वृक्षश्च फलेन सह संयुतः
बृहस्पतेस्तु तुष्टस्य सर्वमेतन्निदर्शनम्
अशुभं हि शुभेनैव शांतिं होमं च कारयेत्
केसरी शर्करा तैलं राजतं तांडवं स्थितम्
ताम्रं कांस्यं तथा लोहं सीसकं पित्तलं तथा
धननाशो भवेत्तस्य स्वर्ग भंगो ह्यथापि वा गजाश्वपशुभृत्यानां विनाशो जायते ध्रुवम् ।। 2.3.20.
यस्यैतानि प्रदृश्यंते पर्वतः कनकानि च
दंतोत्तरेषु दंताश्च पंक्तिमाक्रम्य संस्थिताः उपदंताश्च सर्वे ते न ते दोषकराः क्वचित्
भांडे कुंभे यदा चैव श्रूयते घनगर्जितम्
मूषिकानां मुखे चैव ज्वलंती यस्य पश्यति
शांतिं तत्र प्रवक्ष्यामि यया संपद्यते शुभम् दधिमधुघृताक्तं च जुहुयाद्भार्गवे दिने
शुक्लवासोयुगं चैव गां च शुक्लां पयस्विनीम्
देवागारे यदा भूमिर्लोहिता यस्य दृश्यते
राजा वा राजपुत्रो वा राज्यं वापि विनश्यति
यत्र वा दृश्यते लोके गृहे यस्य सुपूजिताः
हस्त्यश्वमहिषाश्चैव अजा गावस्तथैव च 2.3.20.
गृहे हंसो गृहे सम्यङ्मण्डूका जलचारिणः
अकस्माद्धटशब्दोपि यत्र कुत्रापि जायते
गृही तत्र विनश्येत सपुत्रपशुबांधवः
उदितो दृश्यते व्योम्नि ज्वलितः पावकस्तथा
रससिद्धानि वस्तूनि सुराद्याश्चापि वा पुनः विनश्यंति सदा चैते शनेरद्भुतदर्शने
नगरे वा तथा ग्रामे जायन्ते तस्य वैरिणः
मृगव्याघ्रादिरक्षांसि तथा गोमहिषा अपि