उपरिष्टाद्भवेद्यस्य महोत्पातो भवेदयम्
रुदितं कोकिलस्यापि उलूकोप्यशुभं वदेत् हस्तिनो मदयुक्ताश्च म्रियंते नात्र संशयः
ताडीपूगादयो यत्र यमौ स्यातां प्रमादतः
बद्धपुष्पे यदा पुष्पं फलं वा यदि दृश्यते दधि मधु घृतं चैव जुहुयादयुतं द्विजाः ।।2.3.20.
पालाशं सोममुद्दिश्य सोमस्य च भवेद्दिने
उत्पतंति गृहे यस्य यवा माषाश्च पुष्कलाः
अकस्माद्गृहदाहस्तु अनग्निज्वलनं यथा
व्याधिलीना विनश्यंति निखिलाः पशुमानुषाः ३४ राजामात्यविनाशाय गेहे गेही विनश्यति
दृष्ट्वा वाभद्रमत्युग्रं जुहुयादयुतं क्रमात्
अग्निर्मूद्धेंति मंत्रेण श्रपितं लोहितं चरुम् स्वर्णमंगारमुद्दिश्य ततः शांतिः प्रजायते
पुष्पं वा पातयेद्यत्र फलं वापि तथैव च
हस्त्यश्वमहिषा गावो दारापत्यधनानि च आंगारकेण मंत्रेण खादिरं चाक्षतैर्युतम्
दक्षिणां च यथाशक्ति दद्याद्विप्राय वा पुनः 2.3.20.
धावंति चोर्ध्वपुच्छाश्च गृहे गावः स्वयं यदि
गृहे यस्य भवंत्येते तस्य भार्या विनश्यति
मिथ्यावादेन गेही च राज्ञा वादैश्च तिष्ठति
धरणीहननं यत्र द्वयोरास्कदनं तथा
यस्य गेहे भवंत्येते नाशस्तस्य भवेद्ध्रुवम्
अकस्माद्यदि चैतानि बुधस्योत्पातलक्षणम्
दधिमधुघृताक्तं च अपामार्गं तथा पुनः
अंबकेति च मंत्रेण बुधाय श्रपयेच्चरुम्
सुवर्णं पुष्पवृष्टिं च सुफलं चाक्षतं तथा
अलंकारयुतां वापि सर्वाभरणभूषिताम् 2.3.20.
अकस्मान्मालतीपुष्पं जातं स्यात्तस्य वा गृहे
धनं धान्यं तथा पुत्र ऐश्वर्यं च वरस्त्रियः
श्रीश्चतेति च मन्त्रेण अपामार्गं तथा बुधः
पयस्विनीं तथा गां च वासोयुगसमन्वितम्
रक्तस्रावो भवेद्यत्र तत्र ऋत्विक्प्रसूयते
एको वृषस्त्रयो गावः सप्ताष्ट नव दंतिनः
पुनःपुनर्व्रतं चाशु अकाले मैथुनं तथा