श्वेतोलूको बृहंश्चैव द्रोणकाकश्च कोकिलः
गृहे तस्य महोत्पातो भविष्यति न संशयः
हाराः कटकटायंते जातस्य दंतसम्भवः सर्पमण्डूकप्रसवः कुंभे वापि क्वचिद्भवेत्
निमित्तान्येवमादीनि जायंते यस्य वेश्मनि 2.3.20.
अशनिः पतते यत्र गृहे वज्रं च पादपे
खर्जूर उदरावर्ते निकोचगरलेऽपि च
उद्याने देवगेहे च स्वगृहे चैत्यवृक्षके ततः शांतिर्भवेदाशु धेनुं दद्याच्च दक्षिणाम्
पायसं तिलमुद्गौ च पुष्पं वा तालवृन्तकम्
सिंहासनं रथच्छत्रं ध्वजश्चामरभूषिते
नदयंति च सत्यस्योज्ज्वलनं स्त्रीपुरुषयोः
उपरिष्टाद्भवेद्यस्य महोत्पातो भवेदयम्
रुदितं कोकिलस्यापि उलूकोप्यशुभं वदेत् हस्तिनो मदयुक्ताश्च म्रियंते नात्र संशयः
ताडीपूगादयो यत्र यमौ स्यातां प्रमादतः
बद्धपुष्पे यदा पुष्पं फलं वा यदि दृश्यते दधि मधु घृतं चैव जुहुयादयुतं द्विजाः ।।2.3.20.
पालाशं सोममुद्दिश्य सोमस्य च भवेद्दिने
उत्पतंति गृहे यस्य यवा माषाश्च पुष्कलाः
अकस्माद्गृहदाहस्तु अनग्निज्वलनं यथा
व्याधिलीना विनश्यंति निखिलाः पशुमानुषाः ३४ राजामात्यविनाशाय गेहे गेही विनश्यति
दृष्ट्वा वाभद्रमत्युग्रं जुहुयादयुतं क्रमात्
अग्निर्मूद्धेंति मंत्रेण श्रपितं लोहितं चरुम् स्वर्णमंगारमुद्दिश्य ततः शांतिः प्रजायते
पुष्पं वा पातयेद्यत्र फलं वापि तथैव च
हस्त्यश्वमहिषा गावो दारापत्यधनानि च आंगारकेण मंत्रेण खादिरं चाक्षतैर्युतम्
दक्षिणां च यथाशक्ति दद्याद्विप्राय वा पुनः 2.3.20.
धावंति चोर्ध्वपुच्छाश्च गृहे गावः स्वयं यदि
गृहे यस्य भवंत्येते तस्य भार्या विनश्यति
मिथ्यावादेन गेही च राज्ञा वादैश्च तिष्ठति
धरणीहननं यत्र द्वयोरास्कदनं तथा
यस्य गेहे भवंत्येते नाशस्तस्य भवेद्ध्रुवम्
अकस्माद्यदि चैतानि बुधस्योत्पातलक्षणम्
दधिमधुघृताक्तं च अपामार्गं तथा पुनः